SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ॥७६९॥ Jain Education याह चोदकः - 'दुहओडणंतररहिया दुहउ' त्ति वर्त्तमानभाव स्थितस्य उभयत एष्यकालेऽती तकाले च 'अणंतररहिय'त्ति अनन्तरौ एष्यातीतौ अनन्तरौ च तौ रहितौ च वर्त्तमानभवभावेनेति प्रकरणाद् गम्यते अनन्तररहितौ तावपि 'जइ'त्ति यदि तस्योच्यते 'एवं तो भवा अनंतगुण'त्ति एवं सति ततो भवा अनन्तगुणाः, तद्भवद्वयव्यतिरिक्ता वर्त्तमानभवभावेन रहिता एष्या अतिक्रान्ताश्च तेऽप्युच्येरंस्ततश्च तदपेक्षयापि द्रव्यत्वकल्पना स्यात्, अथोच्येत - भवत्येवमेव का नो हानिरिति ?, उच्यते, एकस्य - पुरुषादेरेककाले - पुरुषादिकाले भवा न युज्यन्ते न घटन्ते अनेके - बहव इति गाथार्थः ॥ १४३९ ॥ इत्थं चोदकेनो के गुरुराह-'दुहओऽणंतरभवियं दुहङ' त्ति वर्त्तमानभवे वर्त्तमानस्य उभयतः एष्येऽतीते चानन्तरभविक, पुरस्कृतपश्चात् कृतभवसम्बन्धीत्युक्तं भवति, यथा तिष्ठति आयुष्कमेव तुशब्दस्यावधारणार्थत्वात्, न शेषं कर्म विवक्षितं यद् बद्धमयं गाथार्थः ॥ १४४० ॥ | पुरस्कृतभवसम्बन्धि त्रिभागावशेषायुष्कः सामान्येन तस्मिन्नेव भवे वर्त्तमानो बध्नाति, पश्चात्कृतसम्बन्धि पुनस्तस्मिन्नेव भवे वेदयति । अतिप्रसङ्गनिवृत्त्यर्थमाह- 'होजियरेसुवि जइ तं दबभवा होज ता तेऽवि' भवेत् इतरेष्वपि प्रभूतेष्वती तेषु यद् बद्धमनागतेषु च यद् भोक्ष्यते यदि तस्मिन्नेव भवे वर्त्तमानस्य द्रव्यभवा भवेरंस्ततस्तेऽपि तदायुष्क कर्मसम्बन्धादिति हृदयं, न चैतदस्ति, तस्मादसच्चोदकवचनमिति गाथार्थः ॥१४४१ ॥ अस्यैवार्थस्य प्रसाधकं लोकप्रतीतं निदर्शनमभिधातुकाम आह- 'संझासु दोसु सूरो' सन्ध्या च सन्ध्या च सन्ध्ये तयोः सन्ध्ययोर्द्वयोः प्रत्यूष प्रदोषप्रतिबद्धयोः सूर्य-आदित्यः अदृश्यमानोऽपि - अनुपलभ्यमानोऽपि प्रापणीयं प्राप्यं समतिक्रान्तं समतीतं च यथाऽवभासते - प्रकाशयति क्षेत्रं, तद्यथा- प्रत्युषसन्ध्यायां पूर्वविदेहं भरतं च, प्रदोषसन्ध्यायां तु भरतमपरविदेहं च, तथैव यथा सूर्यः इदमपि प्रक्रान्तं ज्ञातव्यं - विज्ञे For Personal & Private Use Only कायोत्सर्गनिक्षेपः ॥७६९॥ inelibrary.org
SR No.600223
Book TitleAavashyaksutram Part 04
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages208
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy