Book Title: Aavashyaksutram Part 04
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 11
________________ 'देहो'त्ति शरीरसमुच्छ्रयो नारकादीनां यः स गतौ काय इतिकृत्वा गतिकायो भण्यते, अत्रान्तरे आह चोदक:-'एसो सरीरकाउ'त्ति नन्वेष शरीरकाय उक्तः, तथाहि-नौदारिकादिव्यतिरिक्ता नारकतिर्यगादिदेहा इति, आचार्य आह-'विसेसणा होति गतिकाओ'विशेषणाद-विशेषणसामर्थ्याद् भवति गतिकायः, विशेषणं चात्र गतौ कायो गतिकायः, यथा द्विविधाः संसारिणः-त्रसाः स्थावराश्च, पुनस्त एव स्त्रीपुंनपुंसकविशेषेण भिद्यन्त इत्येवमनापीति गाथार्थः॥अथवा सर्वसत्त्वानामपान्तरालगतौ यःकायः स गतिकायोभण्यते, तथा चाह-'जेणुवगहिओ' येनोपगृहीत-उपकृतो व्रजति-गच्छति भवादन्यो भवः भवान्तरं तत् , एतदुक्तं भवति-मनुष्यादिर्मनुष्यभवात् च्युतः येनाश्रयेणा(श्रितोऽ)पान्तराले देवादिभवं गच्छति स गतिकायोभण्यते, तं कालमानतो दर्शयति-यच्चिरेण 'कालेणं ति स च यावता कालेन समयादिना व्रजति तावन्तमेव कालमसौ गतिकायोभण्यते एष खलु गतिकायः, स्वरूपेणैव दर्शयन्नाह-'सतेयगं कम्मगसरीरं' कार्मणस्य प्राधान्यात् सह तैजसेन वर्तत इति सतैजसं कार्मणशरीरं गतिकायस्तदाश्रयेणापान्तरालगतौ जीवगतेरिति भावनी(यम)यं गाथार्थः॥निकायकायः प्रतिपाद्यते तत्र-नियय'त्ति गाथार्द्ध व्याख्यायते 'निययमहिओवकाओ जीवनिकाय'त्ति नियतो-नित्यः कायो निकायः, नित्यता चास्य त्रिष्वपि कालेषुभावात् अधिको वा कायो निकायः, यथा अधिको दाहो निदाह इति, आधिक्यं चास्य धर्माधर्मास्तिकायापेक्षया स्वभेदापेक्षया वा,तथाहि-एकादयो यावदसङ्ख्येयाः पृथिवीकायिकास्तावत् कायस्त एव स्वजातीयान्यप्रक्षेपापेक्षया । निकाय इति,एवमन्येष्वपि विभाषेत्येवं जीवनिकायसामान्येन निकायकायो भण्यते,अथवा जीवनिकायः पृथिव्यादिभेदभिन्नः षविधोऽपि निकायो भण्यते तत्समुदायः, एवं च निकायकाय इति, गतं निकायकायद्वारं। अधुनाऽस्तिकायः प्रतिपाद्यते, Jaln Education in For Personal & Private Use Only Finelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 208