Book Title: Aavashyaksutram Part 04 Author(s): Haribhadrasuri, Publisher: Agamoday Samiti View full book textPage 5
________________ मूलुत्तरगुणरुवस्स ताइणो परमचरणपुरिसस्स । अवराहसल्लपभवो भाववणो होइ नायव्वो ॥ १ ॥ ( प्र० ) ॥ भिक्खायरियाइ सुज्झइ अइआरो कोइ वियडणाए उ । बीओ असमिओमित्ति कीस सहसा अगुत्तो वा १ ॥ १४२५सद्दाइएस रागं दोसं च मणा गओ तइयगंमि । नाउं अणेसणिजं भत्ताइविगिंचण वउत्थे ॥ १४२६ ॥ उस्सग्गेणवि सुज्झइ अइआरो कोइ कोइ उ तवेणं । तेणवि असुज्झमाणं छेयविसेसा विसोहिंति ॥ १४२७ ॥ द्विविधो- द्विप्रकार: 'कार्यमि वणो'त्ति चीयत इति कायः - शरीरमित्यर्थः तस्मिन् व्रणः - क्षतलक्षणः, द्वैविध्यं दर्शयतितस्मादुद्भवोऽस्येति तदुद्भवो गण्डादिः आगन्तुकश्च ज्ञातव्यः, आगन्तुकः कण्टकादिप्रभवः, तत्रागन्तुकस्य क्रियते शल्योद्धरणं नेतरस्य तदुद्भवस्येति गाथार्थः ॥ यद्यस्य यथोद्रियते-उत्तरपरिकर्म क्रियते द्रव्यत्रण एव तदेतदभिधित्सुराह - 'तणुओ अतिक्खतुंडो' इति तनुरेव तनुकं कृशमित्यर्थः, न तीक्ष्णतुण्डम तीक्ष्णमुखमिति भावना, नास्मिन् शोणितं विद्यत इत्यशोणितं केवलं नवरं त्वग्लग्नं उद्धृत्य 'अवउज्झत्ति सलो' त्ति परित्यज्यते शल्यं प्राकृतशैल्या तु पुलिङ्गनिर्देश:, 'सलो न मलिज्जइ वणो य' न च मृद्यते व्रणः, अल्पत्वात् शल्यस्येति गाथार्थः ॥ प्रथमशल्यजे अयं विधिः, द्वितीयादिशल्यजे पुनरयं-'लग्गुद्धियंमि' लग्नमुद्धृतं लग्नोद्धृतं तस्मिन् द्वितीये कस्मिन् ? - अदूरगते शल्य इति योगः; मनाग् दृढलग्न इति भावना, अत्र 'मलिज्जइ परं ति मृद्यते यदि परं व्रण इति उद्धरणं शल्यस्य, मर्द्दनं व्रणस्य, पूरणं कर्णमलादिना तस्यैवैतानि क्रियन्ते दूरगते तृतीये शल्य इति गाथार्थः ॥ 'मा वेयणा उ तो उद्धरेत्तु गालंति सोणिय चउत्थे । रुज्झउ लहुंति चिट्ठा वारिजइ' इति मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति, तथा रुह्यतां शीघ्रमिति चेष्टा-परि Jain Educationonal For Personal & Private Use Only ainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 208