Book Title: Aagam 43 Uttaradhyanani Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 3
________________ उत्तराध्ययन-चूर्णे: उपक्रम: मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तराध्ययनचूर्णिः प्राकू तावत् आवश्यकनन्दीअनुयोगद्वारदशवकालिकनामधेयानामागमानां चूर्णयः संस्थयतया प्रादुष्कृताः, अधुना तु श्रीमतामुत्तराध्ययनानां चूर्णिः प्रादुर्भाव्यते, यथा प्राक्तनचूणीनां मुद्रणे मूलमूत्राणि न धृतानि न च नियुक्तिर्भाष्यं च भृते, किन्तु प्राङ्मुद्रितानामेव वृत्तिपुस्तकानां गाथायंकाः पत्रांकाश्च धृताः तद्वदत्रापि न मूलसूत्राणि न च नियुक्तिर्नापि भाष्यं च मुद्रितानि, किन्तु तत्र तत्र प्रारमुद्रितायाः श्रीशान्तिमरिभाषितायाष्टीकापतेः पत्रांका धृता गाथार्थका अपि तत्रस्था एवं धृताः, एतस्या अपि पूर्णे: प्राइमुद्रितचूर्णीनामिव नात्यन्तमुपयोगः सूत्रावगमे तथापि साहित्यरसिकानां पदार्थवैचित्र्यान्वेषणे भविष्यस्यवापयोगोऽस्याः, प्रादुष्करणं चास्याः प्राचीनसाहित्यप्राकट्यायैव यतो नात्र ग्राहकसंख्या तथाविधा, भाषा प्राकृता विकृतिश्च संक्षिति हेतुरपि तत्र, भविष्यति चाशास्महे आचारांगसूत्रकृतांगभगवतीनां चूर्णीनां मुद्रणक्रिया, प्रार्थयामहे च सज्जनान् यदुत यत्किचित् सूचनीय विधाय कृपां ज्ञातव्यमिति अलेख्यानन्दसागरैः वीरसंवत् २४५९ आश्विनशुक्ला प्रतिपत्, सुरत • उत्तराध्ययन-चूर्णे: पूज्यपाद आनंदसागरसूरीश्वरजी लिखित उपक्रम: [2]

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 291