Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 7
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [-] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: मुत्रचूर्णिः मंगल शास्त्रमेव मङ्गलं ? यन्मङ्गलमुपादीयते किमत्रामङ्गलंका वाऽनवस्थेति ?, नायमसत्पक्षः, किन्तु यस्यापि शास्त्रादर्थान्तरभूतं तस्यापि नामंगलप्रसंगो न वाऽनवस्था, कुतः, खपरानुग्रहकारित्वान्मङ्गलस्य प्रदीपवत् लवणादिवद्वा, आह-महालत्रयान्तरालद्वयं न मङ्गलमापद्यतेऽर्थापनितः, यदिवेह सर्वमेव शास्त्र मङ्गलमिति प्रतिपद्यते मङ्गलवयग्रहणमनर्थकं ?, उच्यते, समस्तमेव शास्त्रं त्रिधा । विभज्यते, कुतोऽन्तरालद्वयपरिकल्पनं यदमङ्गलं भवेत् ?, कथं पुनः सर्वमेव शास्त्रं मङ्गलमिति चेत् ?, उच्यते, निर्जरार्थत्वात् तपोवत् , आह-यदि स्वयमेव शास्त्रं मङ्गलमित्यतः किमिह मङ्गलग्रहणं क्रियते ?, उच्यते. ननूक्तं नैवेह शास्त्रादर्थान्तरभूतं मङ्गलमुपादीयते, किन्तु मङ्गलमिदं शास्त्रमिति केवलमुञ्चायते, आह-तदुचारणं किंफलं ?, यदि मालमिति न संबध्यते किं तद् १. मङ्गलं भवति, शिष्यमतिमङ्गलपरिग्रहार्थं तदभिधानं, इह शिष्यः कथं शास्त्रं मालमित्येव मंगलबुद्ध्या परिगृहीयादिति, यस्मादिह मङ्गलमपि मङ्गलबुद्ध्या परिगृह्यमाणं मङ्गलं भवति, साधुवत् , आह-ततः सर्वमेवेदं मङ्गलमित्येतावदस्तु नार्थों मङ्गलत्रयबुद्धिग्रहेण, उच्यते, ननु तत्रापि कारणमुक्तं-यथव हि शाखं मङ्गलमपि सत् न मङ्गलबुद्धिपरिग्रहमन्तरेण मङ्गलं भवति साधुवत् , तथा मङ्गलजयकारणमपि अविनपारगमनादि न मङ्गलत्रयबुद्ध्या विना सिध्यतीत्यतस्तदभिधानमिति, मगेगत्यर्थस्य अलप्रत्ययान्तस्य मङ्गलमिति रूपं भवति, मंग्यतेऽनेन हितमिति मङ्गलं, मंग्यते साध्यत इतियावत् , अथवा मंगो-धर्मः, 'ला आदाने' मङ्गं लातीति मङ्गलं, धर्मोपादाने हेतुरित्यर्थः, अथवा निपातनादिष्टार्थप्रकृतिप्रत्ययोपादान्मङ्गलं, इष्टार्थाश्च प्रकृतयः-मकि मण्डने, मन ज्ञाने, मदी हर्षे, मदि मोदस्वमगतिषु, मह पूजायामित्येवमादीनामलप्रत्ययान्तानां मङ्गलमेतन्निपात्यते, मंक्यते अनेन मन्यते वाऽनेनेति मङ्गलमित्यादि लक्षणशास्त्रीययाऽनुवृत्या योजनीयमिति, अथवा मंगालयति भवादिति मङ्गलं, संमारादपनयतीत्यर्थः, अथवा 'मंगल' संबधि विवेचन

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 472