Page #1
--------------------------------------------------------------------------
________________
BEEN9555555553पमाफकपक5555eosax
॥ श्री जिनाय नमः ॥
॥ श्रीमदनरेखाचरित्रम् ॥
(कर्ता-श्रीशुभशीलगणि)
- छपावी प्रसिद्ध करनारःपण्डित श्रावक हीरालाल हंसराज (जामनगरवाळा)
Kएकहन
श्रीजैनभास्करोदय प्रिन्टिंग प्रेसम छाप्-जामनगर सने १९३२
संवत् १९८९
किंमत ०-१२-० HAR 55555556555555555
5 5555555556
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
चरित्रम
ROCOCCE
॥श्री जिनाय नमः ॥
॥ श्री चारित्रविजयगुरुभ्यो नमः ॥ ॥ अथ श्रीमदनरेखाचरित्रं प्रारभ्यते ॥
(कर्ता-श्रीशुभशीलगणी) (द्वितीयावृत्तिः) (छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) पालयंति सदा शीलं । मुक्त्यादिसुखदायकं । भव्या मदनरेखाव-न्मनसा वपुषा गिरा ॥ १॥ तथाहि-भरतखंडभूषणे सुदर्शनाभिधे नगरे मणिरथाभिधो राजा राज्यं करोतिस्म. तस्य लघुर्धाता | युगबाहुश्व युवराजोऽभूत्. तस्य युगबाहोः मदनरेखाभिधा शीलशालिनी प्रियाजनि. तस्या अतीव-61
मनोहरां रूपश्रियं विलोक्य स मणिरथो राजा मोहितः स्वचेतसीति दध्यो, इयं मदनरेखा मया ध्रुवं है। # मावि, यद्यहमेतया सह भोगविलासान्न कुर्वे, तदा मम जन्म निष्फलमेव भविष्यति. अथ तदीय ।
27
र
Page #4
--------------------------------------------------------------------------
________________
भोगाविलासवांछया स राजा तां लोभयितुं दास्या हस्तेन वर्यपुष्पतांबूलवस्त्रालंकारादीनि वस्तुनि मदन | तस्य नित्यं प्रेषयामास. सा निर्मलहृदया मदनरेखा तु नूनमयं ज्येष्टप्रेषितो महाप्रसाद इति मत्वा चरित्रम्
18/ तानि वस्तून्यंगीचकार. एवं वस्तूनामंगीकारतः स कामातुरो मणिरथनृपो निजचेतस्येवं मन्यतेस्म, 181 18/ यत्सा मदनरेखा नूनं मया सह भोगविलासान् कर्तुं वांछति, अतो मदीयाभिलाषोऽपि संपूर्णो भवि
। व्यति. इति विचित्य तेने दुष्टेनेकदा निजदासी प्रेष्य मदनरेखाया निजाऽनुचित्तेच्छा ज्ञापिता, सा है दासी तत्र गत्वा तां मदनरेखां प्रति प्राह-भद्रे त्वदीयरूपाद्या-सक्तो मणिरथो नृपः ॥ त्वां च भो ।
गविलासार्थ । मन्मुखेन प्रजल्पति ॥ १ ॥ एवं विधं तस्या दास्या वचः श्रुत्वा वजाहतेव सा मद- 12
नरेखा तामुवाच, भो दासि ! त्वया स मज्ज्येष्टो मदीयवचसैवं वाच्यः, यत्तव कुलीनस्यतत्कार्य कर्तु । 12 न शोभते, त्वं तु मदीयज्येष्टः पितातुल्योऽसि, किं च मादृशाः कुलीना वध्वः प्राणांतेऽपि वेश्योचितं ।।
कार्य न कुर्वति. जगति या कापि स्त्री निजशीलभंग करोति, सा नूनं नरकगामिन्येव भवति. 18 किंच-अणंताओ कम्मरासीओ। जया उदयमागया ॥ तया इत्थीत्तणं पत्तं । सम्मं जाणेह गोयमा हूँ
Page #5
--------------------------------------------------------------------------
________________
मदन०
1-4ERE
॥ १॥ किंच तस्य राज्ञोतःपुरे मनोहरा राइयो वियंते, तासु सत्स्वपि स मूढ इव कथमन्यां स्त्रियं वांछति ? एवंविधमनोरथेन स नूनं नरकगामी भविष्यति. किंच मम भर्तरि जीवति यः कोऽपि मां भो- है
चरित्रम् स्तुमिच्छति, स नूनं यमातिथिरेव भविष्यति. यदिवा केनचित्कूटोपायेन स कदाचित् मह्यं बलात्कार
करिष्यति, तदाहं मदियशरीरार्पणस्थाने तस्मै मम प्राणानेव दास्ये. उत्तमोश्चहामुत्र विरुझं नाचरंति. । यतः-जीवघातादलीकोक्तात् । परद्रव्यापहारतः ॥ परस्त्रीकामनेनापि । व्रति नरकं न के ॥१॥ 18 परस्त्रीग्रहणे वांछा । न कार्या भूभुजा क्वचित् ॥ यतो भूपानुगा लोका । भवंति जगतीतले ॥ २ ॥
एवं विधानि तस्या वचनानि निशम्य विलक्षीभृता सा दासी ततः पश्चानिवृत्य भूपोपांते गत्वा | मदनरेखोक्तं सकलं वृत्तांतं कथयामास. तत् श्रुत्वा स कामातुरो नृपो विशेषतस्ता मदनरेखां भोक्तुं दभ्यो, नूनं युगबाही जीवति मामियं नांगीकरिष्यति, ततः केनाप्युपायेन प्रथमं तं सुबाहुमेव हन्मि, पश्चान्निराधारा सा सुखेनैव मां स्वीकरिष्यति. इति ध्यात्वा स दुष्टो निजं लघु भ्रातरं हंतुमवसरं विलोकयति. इतोऽन्यदा तया मदनरेखया निशाशेषे स्वप्नमध्ये संपूर्णेदुर्दृष्टः, ततस्तया स स्वप्नवृत्तांतो
Page #6
--------------------------------------------------------------------------
________________
निजस्वामिने युगबाहवे निवेदितः. तदा स प्राह, हे प्रिये ! मनुष्येषु चंद्र इव सौम्यवान् शांतगुणोमदन०६/ पेतस्ते तनयो भविष्यति. क्रमादथ तृतीये मासि तस्या मदनरेखाया इति दोहदः समुत्पन्नः, यथाहं / चरित्रम्
जिनेंद्राणां पूजां करोमि, गुरून् प्रतिलाभयामि, धर्मकथां शृणोमि, अन्यं च श्रावयामि, यतः-यादृशो है जायते गर्भे । जीवः शुभोऽथवाऽशुभः ॥ तादृशो मातुरेव स्या-न्मनोरथः स्वमानसे ॥ १॥ अथा है। न्येयुः स युगवाहुर्वसंतसमये सप्रियः क्रीडार्थ नगराइहिरुद्याने ययौ. तत्र जलक्रीडादि कृत्वा स यु
गबाहुर्निशायां स्मृतपंचनमस्कारः कदलीगृहे सुप्तः. इतः स मणिरथो राजा निजभ्रातरं स्वल्पपरि12 वारयुतं रात्रावुद्याने स्थितं विज्ञाय, तं हेतुं स्वयमेकाकी खङ्गहस्तोऽत्र समाययो. मद्भातुरेकाकिनोऽत्र
वने रात्रौ स्थातुं न युक्तमिति मायया प्राहरिकं वदन् स तत्र कदलीगृहमध्ये प्रविष्टः अथ युगबाहु15| रकस्मात् समागतं तं निजज्येष्टभ्रातरं दृष्ट्वा समुत्थाय विनयपूर्वकं नतिपूर्वकं नमस्कारमकरोत्. तदेव ।
स दुष्टो मणिरथः स्वकल्पिता वार्ता कुर्वन् खगमाकृष्य विश्वस्तं तं निजसहोदरं हतवान्. तत्कालं है। मदनरेखया पूत्कारे कृते युगबाहुसुभटो यावत्तं हेतुमाययो, तावत्खड्गघातविधुरीभृतोऽपि युगबाहु
4-24
Page #7
--------------------------------------------------------------------------
________________
| स्तान् सुभटान् प्राह, भो सुभटाः! ममायं सहोदरो भवद्भिर्न हंतव्यः, अस्मिन् विषये मम भ्रातुन है। मदन दूषणं, मदीयं पुराकृतं दुष्कर्मैव प्रकटीभृतं. एवं तैः सुभटैर्मुक्तः स मणिरथो राजा निजवांछितं कार्यचरित्रम् ॥५॥ सिझं मन्यमानो हृष्टो द्रुतं ततः पलाय्य खगृहे समाययो, तत्र चाकस्मात्तदैव सण दष्टः स पंचत्वं
PI प्राप, यतः-अत्युग्रपुण्यपापाना-मिहैव फलमाप्यते ॥ त्रिभिर्मासैस्त्रिभिः पक्ष-स्त्रीभिर्यामस्त्रिभिर्दिनैः
॥१॥ अथ चंद्रयशाख्यो युगबाहुपुत्रो निजजनकवणचिकित्सार्थ वैद्यमाकारयितुं नगरमध्ये ययौ. इतों-18 18 तकालनिःश्वासान् गृहूतं तं निजपति मदनरेखा जगो, हे स्वामिन् ! अथाधुना भवद्भिर्मनागपि 5
खेदो न कर्तव्यः, जीवाः स्वकृतकर्मणामेव फलानि प्राप्नुवंति, यतः-ययेन विहितं कर्म । भवेऽन्यस्मिन्निहापि वा ॥ वेदितव्यं हि तत्तेन । निमित्तं ह्यपरो भवेत् ॥ १॥ गृहाण धर्मपाथेयं । कायेन है। मनसा गिरा ॥ यत्कृतं दुष्कृतं किंचित् । सर्व गर्हस्व संप्रति ॥ २ ॥ शत्रौ मित्रे सुते पत्न्यां । मणौ दृषदि सर्वथा मोहः सद्भिर्न कर्तव्यो-ऽनंतसंसारदायकः ॥ ३ ॥ ततो मदनरेखया स्मारितो युगबाहुः समग्रजीवक्षमायाचनपूर्वकमाराधनां चकार, तथाहि-यच्च मित्रममित्रं मे । स्वजनोऽरिजनोऽपि
ABAR
69CCCCCE
Page #8
--------------------------------------------------------------------------
________________
मदन०
॥ ६ ॥
वा ॥ ते सर्वे क्षमतु मे । क्षमाम्यहमपीह तान् ॥ १ ॥ तिर्यक्त्वे सति तिर्यचो । नरकेऽपि च नारकाः ॥ अमरा अमरत्वे च मनुष्यत्वे च मानुषाः ॥ २ ॥ ये मया स्थापिता दुःखे | सर्वांस्तान् क्षमयाम्यहं ॥ क्षमंतु मम तेऽपीह | मैत्रीभावमुपागताः ॥ ३ ॥ जीवितं यौवनं लक्ष्मी । रूपं प्रियसमागमः ॥ चलं सर्वमिदं वात्या । नर्तिताब्धितरंगवत् ॥ ४ ॥ व्याधिजन्मजरामृत्यु - प्रस्तानां प्राणिना'मिह ॥ विना जिनोदितं धर्मं । शरणं कोऽपि नापरः ॥ ९ ॥ सर्वेऽपि जीवाः स्वजना । जाताः परजानाश्च ते ॥ प्रतिबंधं न कुर्वेऽपि । तेषु केष्वपि मोहतः ॥ ६ ॥ एक उत्पद्यते जंतु - रेक एव विपद्यते ॥ सुखान्यनुभवत्येको । दुःखान्यपि स एव हि ॥ ७ ॥ न सा जाइ न सा जोणी । न तं ठाणं न तं कुलं ॥ न जाया न मुआ जत्थ । सव्वे जीवा अनंतसो ॥ ८ ॥ एगोहं नत्थि मे कोइ । नाहमन्नस्स कस्सवि ॥ एवमदीणमणसा । अप्पाणमणुसासए ॥ ९ ॥ इत्याद्यनित्यभावानां भावयन्, मदनरेखयापि च प्रोत्साहितः स युगबाहुः शुभध्यानपरायणो विपद्य ब्रह्मदेवलोके देवोऽभूत्. अथ वैद्ययुतस्तत्रागतश्चंद्रयशा निजतातं युगबाहुं भृतं विलोक्य मृशं रुरोद मदनरेखापि चिरं विलापं विधायेति
1414THE
चरित्रम
॥ ६॥
Page #9
--------------------------------------------------------------------------
________________
मदन०
॥७॥
दध्यौ, धिगस्तु मां, याऽहं पत्युर्मरणहेतुरभवं. अथ मम भर्ता तु मृतः, स्त्रियाश्च भर्तेव शरणं. किंच | प्रातः स दुष्टो मणिरथो यदि मां गृहीष्यति, तदा को मे रक्षणं करिष्यति ? अथ स्वर्गापवर्गसुखदं शीलं तु मया केनाप्युपायेन रक्षितव्यमेव इति ध्यात्वा सा मदनरेखा ततः प्रच्छन्नं वनमध्ये निर्ययौ एवं गच्छंती सा मदनरेखा द्वितीयदिने प्रभाते महाटव्यां प्राप्ता, तत्र कस्मिंश्चिजलाशये | स्नानं विधाय पयः पीत्वा क्वापि कदलीगृहे सुप्ता एवं तत्र स्थिता फलाहारपरा सा सप्तमे दिने पुत्रमसूत् ततः सा प्रभते तस्य बालस्य करांगुल्यां युगबाहुनामांकितां मुद्रां प्रक्षिप्य तं च रत्नकंबलेन वेष्टयित्वा वृक्षच्छायायां मुक्त्वा स्ववस्त्राणि क्षालयितुं निकटस्थे सरसि गता. तत्र पयोमध्ये प्रविष्टा सा मदनरेखा जलहस्तिना शुंडया गृहीत्वा व्योम्न्युल्लालिता. तदानीमेव नंदीश्वरतीर्थयात्रार्थं प्र स्थितेनैकेन खेचरेण नभसः पतंती सा जगृहे. तद्रूपमोहितः स खेचरस्तां वैताढये निनाय. अथ तल विलापं कुर्वती सा खेचरेण तत्कारणं पृष्ठा सर्व निजवृत्तांतं जगौ भो खेचर! यत्र स्थानादहं स्वयात्रानीता, तत्र मकः पुत्रः प्रसूतोऽभूत् तं पुत्रं षं कदलीगृहे मुक्त्वाहं वस्त्रप्रक्षालनार्थ यावत्स -
चरित्रम्
11911
Page #10
--------------------------------------------------------------------------
________________
रसि प्रविष्टा, तावजलहस्तिना गगनतले उल्लालित्य, इतस्त्वयाकाशादेवाहं गृहीता. अथ स बालो । मदन० 15/ मा विना तत्रैकाकी स्थितो मृत्युं यास्यति, अतो मयित्वं प्रसादं विधाय तत्र नय ? अथवा तं बाल- 18| चरित्रम् 18 मत्रानय ? तत् श्रुत्वा स खगः प्राह, भो सुंदरि! यदि त्वं मां निजभर्तृत्वेनांगीकरोषि, तदाहं तव hen
किंकरो भवामि. इति श्रुत्वा तया मदनरेखया ध्यातं, अथास्मिन्नवसरे मया विलंबंविना शीलं पाल-18 यितुं नैव शक्यते, इति ध्यात्वा मदनरेखा जगौ प्रथमं त्वं मे तं पुत्रमत्र समानय ? तदा स खगोऽव
दत्, हे सुंदरि ! अहं वैताढ्यपर्वतस्थरत्नावहपुरेशस्य मणिचूड विद्याधरस्य मणिप्रभाभिधः पुत्रोऽस्मि. 12 वैराग्यवासितहृदयो मम स पिता मां राज्येऽभिषिच्य चारणर्षिसंनिधौ संयममग्रहीत्. स मम पिता है
विहरन्नत्रागत्यातीतवासरे नंदीश्वरद्वीपे देवान्नंतुं गतोऽस्ति. तमनुगम्य पश्चादागच्छता मया त्वं दृष्टा, २ गृहीता च. अथ त्वं मां निजपतित्वेन स्वीकृत्य सर्वखेचरीणां स्वामिनो भव? किंच प्रज्ञप्तिविद्यया | | मया तव पुत्रस्यापि वृत्तांतो ज्ञातोऽस्ति, मिथिलापुरपतिना तुरगापहृतेन पद्मरथभूपेन स तव पुत्रो | वने दृष्टः, स्वपुरे समानीय च निजप्रियायाः पुष्पमालायाः समर्पितोऽस्ति, सा च तमधुना स्वपुत्रवत्
Page #11
--------------------------------------------------------------------------
________________
मदन०
॥ ९ ॥
पालयति ततस्त्वं प्रसन्नीभूय मदीयां प्रार्थनां स्वीकुरु ? तत् श्रुत्वा तया ध्यातमरेरे! ममैवं प्रतिकूल कर्मसमागमो जातः, मयैवं व्यसनपरंपरेववानुभूयते, अथैवं महासंकटे पतिताहं कथं निजशीलरक्षणं करिष्ये? कामपीडितोऽयं खेचरः किमपि कृत्याकृत्यं न ज्ञास्यति इदानीं तु मया केनापि |च्छलेन कालविलंब एवं करणीयः इति विचित्य सा तं जगाद भो खेचराधीश ! प्रथमं त्वं मा | नंदीश्वरद्वीपं नय ? तत्र देवान्नत्वा पश्चादहं त्वदुक्तं करिष्ये इति श्रुत्वा तुष्टेन तेन खगेन सा क्षणा - नंदीश्वरद्वीपं नीता, तत्र च सैवं शाश्वतानि जिनचैत्यानि वंदतेस्म, यथा- चत्वारोंचनशैलेषु । दधि- मुखेषु षोडश ॥ द्वात्रिंशच्च रतिकरा - भिधानेषु जिनालयाः ॥ १ ॥ योजनानां शतं दीर्घाः । पंचाशद्विस्तृताश्च ते ॥ द्विसप्तत्युच्छ्रिताः सर्वे । द्विपंचाशद्भवत्यमी ॥ २ ॥ एवं तल ऋषभचंद्राननवारिषेणवर्धमानाभिधान् शाश्वतजिनान्नत्वा सा मदनरेखा तेन खेचरेण सह तत्र स्थितं मणिचूडमुनीश्वरं | नमस्कृत्य यथोचितस्थाने विद्याधरसभायां धर्मोपदेशं श्रोतुं समुपविष्टा तदा स ज्ञानवान् मणिचूडमुनीश्वरोऽपि निजपुत्रहृदयविचारं विज्ञाय तदुचितां देशनां ददौ, यथा भो भो भव्यलोकाः ! कुमार्गः
चरित्रम्
-118.11
Page #12
--------------------------------------------------------------------------
________________
मदन०
॥ १० ॥
सर्वथापि न सेव्यः परस्त्रीगमनादिकुमार्गसेवया नूनं नराणां श्वभ्रपात एव भवति यतः - परस्त्रीगतिवांछातः । पुरुषो नरकं व्रजेत् ॥ अन्यनृसेवया नारी । गामिनी नरके भवेत् ॥ १ ॥ दाराः पर| भवकाराः । बंधुजनो बंधनं विषं विषयाः ॥ कोऽयं जनस्य मोहो। ये रिपवस्तेषु सुहृदाशाः ॥ २ ॥ पुत्रो में भ्राता मे । स्वजनो मे गृहकलत्रवर्गो मे ॥ इति कृतमेमेशब्दं । पशुमिव मृत्युर्जनं हरति * ॥ ३ ॥ कोऽहं कस्मिन् कथमायातः । को मे जननी को मे तातः ॥ इति परिभावयतः संसारः । सर्वोऽयं खलु स्वप्नविचारः ॥ ४ ओतुः पयः पश्यति नैव दंडं । कीरोऽपि शालोन्न च लोष्टुखंडं ॥ काकः पलं नो चलसिंहतुंडं । जंतुस्तथा शं न यमं प्रचंड ॥ ५ ॥ एवंविधं निजजनक मुनेरुपदेशमाकर्ण्य मणिप्रभ उत्थाय तां मदनरेखां राज्ञीं क्षमयित्वा वदत् भो सुंदरि ! अद्यप्रभृति त्वं मम जामिरसि, आलभ्यं किमुपकारं करोमि? तया प्रोक्तं भो बांधव ! तीर्थवंदनं कारयता वा मह्यमतुल्य उपकारः कृतोऽस्ति, अथ त्वं मम परमबांधवोऽसि ततस्तया स्वपुत्रस्वरूपं पृष्टः स मुनिः प्राह, प्राक् द्वौ राजपुत्रावभूतां, मिथश्च तो परमप्रीतिभाजावास्तां क्रमात्तौ द्वावपि पुण्यविशेषान्मृत्वा सु
चरित्रम
॥ १० ॥
Page #13
--------------------------------------------------------------------------
________________
रौ जातो, तयोर्मध्यादेकः स्वर्गाच्च्युतः पद्मरथाभिधो. राजा भृत्, द्वितीयश्च ते सुतोऽजनि. अथ वन- हूँ मदन०
मध्येऽश्वापहृतेन तेन पद्मरथनृपेण स तवांगजो एहीतः, स्वपल्याः पुष्पमालायाश्च समर्पितः पूर्व- चरित्रम ॥ ११॥ भवस्नेहात्तस्य तव सनोः स पदमरथनपो जन्मोत्सवादि कारयामास. अतस्तव सतस्तत्र सखेन ।
P वर्धमानोऽस्ति. अथैव तस्मिन् मुनो जल्पति, तत्राकस्माजितसूर्यशशिप्रभं, रत्नौघनिर्मितं, क्वणत्किं
किणीगणालंकृतं विमानमेकं गगनांगणादवतीर्ण. ततो विमानान्निजशरीरकांत्या प्रकाशितदिग्मंडल४ श्वलत्कुंडलाद्यनेकाभूषणभूषितांगो गंधर्वदेवैर्गीयमानगुणः कश्चिदेवः समुत्तीर्य प्रथमं तस्या मदनरेखायाः
प्रदक्षिणां दत्वा तस्या एव पदयोः प्रणनाम, पश्चात् स सुरस्तं मुनि वंदतेस्म, ततश्च स सुरो मुने। र धर्म श्रोतुं समुपविष्टः. अथैवं तस्य सुरस्य विपरीतवंदनं निरोक्ष्य खगाधिपः स मणिप्रभस्तं सुरं । है नत्वा प्राह, भो देव! युष्मादृशा देवा अपि यदा नीतिमार्गमुल्लंघयंति, तदास्मादृशां मनुष्याणां है। है कि दूषणं? स्वयैनं चतुर्ज्ञानधरं चारणमुनि मुक्त्वा प्रथमं कथमियं मानुषीमात्रा नमस्कृता? तत् । IP श्रुत्वा स सुरो यावत्किंचिद्वदति, तावत्स मुनिरेवाचष्ट, भो खेचर ! त्वमेवं मा ब्रूहि ? नैवायं सुरस्तथा- |
..
.
.
Page #14
--------------------------------------------------------------------------
________________
R| विधं तवोपालंभमर्हति. त्वमस्य देवस्य वंदनहेतुं शृणु ? यदास्या मदनरेखाया भर्ता युगबाहुः, अ- | मदन० स्यामेवासक्तमानसेन ज्येष्टभ्रात्रा मणिरथेन खङ्गप्रहारेण हतस्तदा तत्प्रांतसमयेऽनया स्त्रिया स चरित्रम ॥ १२॥ स्खभर्ता मधुरैर्वचनैस्तथाराधनया निमितो यथा जेनेंद्रं ध्यानं ध्यायन् स युगबाहुः पंचत्वं प्राप्य ||॥ १२
पंचमे कल्पे इंद्रसामानिकः सुरोऽभृत्. तत्र च स देवोऽवधिज्ञानेनेमा मदनरेखां स्वधर्मदात्री गु- ४ 8. विणी मन्वानोऽत्रागस्य प्रथममिमामनमत्. एवं धर्मदायिन्या अस्याः कोटिशः प्रणामेरप्ययं देवो| नानृणो भवेत् यतः-यो येन स्थाप्यते धर्मे । यतिना गृहिणापि वा ॥ स एव तस्य सध्धर्म-दाता |* | धर्मगुरुभवेत् ॥ १ ॥ किंच-सम्यक्त्वं ददता दत्तं । शिवसौख्यं सनातनं ॥ एतद्दानोपकारस्यो-पकारः ।
कोऽपि नो समः ॥ २॥ सम्मत्तदायगाणं । दुप्पडियारं भवेसु बहुएसु ॥ सवगुणमेलियाहिं य । उ| वयारस्स कोडीहिं ।। ३ ॥ इत्यादि मुनिना प्रोक्तं । जिनधर्म सुभावयन् ॥ सामर्थ्यप्रबलं विद्या-धरः ।
क्षमयते सुरं ॥ ४ ॥ ततः स सुरस्तां मदनरेखा राज्ञीप्रत्यवदत् , भो उपकारिणि ! सुलोचने अथ | किं तेऽभीष्टं ददामि? तदा सा जगौ, भो देव! तत्त्वतो यूयं ममाभीष्टं कर्तुं न क्षमाः, यतः सर्वेऽपि 31
(RG
Page #15
--------------------------------------------------------------------------
________________
चरित्रम
गीर्वाणाः सदा ह्यविरता भवंति. किंच जन्मजरामृत्युरोगशोकार्तिवर्जितं निरुपाधिकं ध्रुवसौख्योपेतं । मदन मोक्षमेवाहमभिलषामि. तथापि भो सुरोत्तम ! वं मां शोघं मिथिलायां पुरि नयस्व? यथा तत्र
पुत्रमुखं प्रेक्ष्य पश्चात्संयम लास्यामि. ततस्तेन सुरेण सा मिथिलायां नीता. तत्र नगर्या श्रीमल्लि| नाथस्य जमन्दीक्षाकेवलज्ञानाख्यानि कल्याणकानि जातानि संति. तत्र प्रथमं तौ द्वावपि जिनप्रा-2 । सादेषु जिनविंबानि नमतः स्म. ततस्तो साध्वीनामुपाश्रये गत्वा ताः प्रणेमतुः. तदा प्रवर्तिन्या 18 सध्या तयोर्धमोपदेशो दत्तो यथा-दं मनष्यजन्म लब्ध्वा जनैः क्षणमपि प्रमादोन विधेयः,
यतः-पुरुषः कुरुते पापं । बंधुनिमित्तं वपुर्निमित्तं च ॥ वेदयते तत्सर्वं । नरकादौ पुनरसावेकः ३॥ १॥ यत्नेन पापानि समाचरंति । प्रसंगादपि नाचरंति ॥ आश्चर्यमेतद्धि मनुष्यलोके । क्षीरं | है परित्यज्य विषं पिबंति ॥ २ ॥ इत्यादिधर्मोपदेशांते स सुरो मदनरेखांप्रति प्राह, भो सुलोचने! एहि ?
अथावां राजकुले यावः, तत्र च तवांगजं दर्शयामि. तदा मदनरेखावदत् , भो देव ! अथ भवभ्रम| णहेतुना पुत्रस्नेहेन सृतं, यतो गुरूणां पाश्वे मया संसारस्य सर्वाप्यसारता श्रुतास्ति, यतः-संसारे |
Page #16
--------------------------------------------------------------------------
________________
मदन०
॥ १४ ॥
भ्रमतां प्राण- भाजां पतिसुतादयः ॥ संबंधा मुरिशो भूता । भविष्यति भवंति च ॥ १ ॥ मयैष तनयो जातो ऽनंतशो भवभ्रांतितः । जनिताहं तथानंत-वारांश्चानेन भूतले ॥ २ ॥ अथैतासां साध्वानां चरणा एव मम शरणं, इत्युक्त्वा मदनरेखा विसृष्टः स सुरो देवलोकं ययौ ततः सा तासां साध्वीनां पार्श्वे दीक्षां गृहीत्वा संजातसुव्रताह्ना नानाविधतपांसि तनुतेतरां इतस्तस्य भूपस्य . गृहे तस्य बालस्यागमन प्रभावेण सर्वेऽपि रिपवस्तं भूपं समागत्य नताः, ततस्तेन पद्मरथभूपेन तस्य नमिरिति नाम चक्रे अथ धात्रीभिः पाल्यमानः स नमिकुमारः क्रमात् प्राप्तयौवन उपाध्यायांति के धर्मशास्त्रकलाभ्यासं चकार ततो राज्ञा क्रमाद्राजकुलजाताभिः स्वरूपपराभूतामरीभिरष्टोत्तरसहस्रक| न्याभिः सह तस्य विवाहो विहितः ततो राजा तं राज्ययोग्यं ज्ञात्वा राज्येन्यस्य श्री ज्ञानसागरसूरिपार्श्वे प्रव्रज्यां जग्राह तीव्रं तपश्च तप्त्वा लब्धकेवलज्ञानः स पद्मरथो राजा शिवं ययो. अथ नतानेकक्षमापाल मौलिः स नमिराजा राज्यं कुर्वाणः शक्रसमो रराज. इतश्च यस्यां रात्रौ स मणिरथनृपो निजं लघुभ्रातरं युगबाहुं जघान तस्यामेव निशि सर्पदष्टः स मृत्वा चतुर्थ्यां नरकावनौ गतः ततः
चरित्रम्
॥ १४ ॥
Page #17
--------------------------------------------------------------------------
________________
१५॥
18 सचिवादिभिर्मिलित्वा द्वयोरपि तयोः सोदरयोरेकस्मिन्नेव स्थानेऽग्निसंस्कारं कृत्वा युगबाहुसुतश्चंद्र है मदन० यशा राज्येऽभिषिक्तः. अथ तस्य नमिभूपतेर्मेदिनी पालयतोऽन्येयुः प्रधानः श्वेतहस्ती आलानस्तं
2 चरित्रम् भमुन्मूल्य विंध्याटवींप्रत्यचालीत्. क्रीडार्थमरण्ये गतेन चंद्रयशसा नृपेण स गजो दृष्टः, तदेरावतगज। सहोदरं तं गजं निजाधोरणैर्बलाद् बध्वा स वपुरमानयामास. चरपुरुषैस्तं वृत्तांतं ज्ञात्वा नमिराजा । तं गजमानयितुं चंद्रयशोनृपपाश्चें निजं दूतं प्राहिणोत्. दूतोऽपि तत्र गत्वा चंद्रयशोभूपं प्राह, मि
थिलास्वामी नमिराजात्र समागतं स्वं गजं याचते. तत् श्रुत्वा चंद्रयशा जगौ, यद्येवं स्वयमिहागतं 5 निजं गजं तव स्वमी मह्यं याचते, तर्हि नूनं स नीतिशास्त्राऽज्ञातो दृश्यते, यतः-न श्रीः कुलकमायाता । शासने लिखितापि वा ॥ खड्गेनाक्रम्य भुंजीत । वीरभोज्या वसुंधरा ॥ १ ॥ तत् श्रुत्वा | | स दूतोऽवदत् , यदि त्वया गजो नार्पयिष्यते, तदा मम स्वामी संग्रामे त्वां हत्वा निजं गजं गृहीष्यति. , ततो रुष्टो नृपस्तं दूतं सभातो बहिर्निष्कासयामास. अथ स दूतोऽपि नमिनृपस्य पावें गत्वा सर्व । वृत्तातं व्यजिज्ञपत्. ततः कुपितः स नमिभूपोऽपि निजसर्वसैन्ययुतो भेरीभांकारैर्दिगंतराणि गर्जयन्
CAREAK
Page #18
--------------------------------------------------------------------------
________________
चरित्रम
। सुदर्शनपुरंप्रति चचाल. एवं तं नमिनृपं भूरिसैन्यमुतमागच्छंतमाकर्ण्य यावच्चंद्रयशा नृपो युद्धाय | मदन तत्सन्मुखं यातुमैच्छत् , तावत् शकुनर्निषिद्धो मंत्रिभिरिति विज्ञप्तश्च, हे स्वामिन् ! अधुनास्माभिर्व॥१६॥ , हिनिर्गत्य युझं कर्तुं न युज्यते, अतो गोपुराणि पिधाय मध्यस्थैरेवास्माभिर्युकं कर्तव्यं. ततो वैरिबलं ,
18 परीक्ष्य पश्चाबहिनिःसृत्य युझं करिष्यामः. एवं मंत्रिभिरुक्तः स राजा तदुक्तं चकार. यतः-चित्त ६.ज्ञः शीलसंपन्नो । वाग्मी दक्षः प्रियंवदः ॥ समयज्ञश्च स्मृतिमान् । मंत्री स्यात्सप्तभिर्गुणैः ॥ १ ॥ है अथ स नमिराजापि महता निजसैन्येन परितस्तन्नगरं वेष्टयामास. अथ तयोयो पयोमियो महा-14 है। युद्धे जायमाने जीवसंहारं विज्ञाय द्वयोः सहोदरयोश्च कलिं वीक्ष्य तया सुबतार्यया ध्यातं, अरेरे! र एनमसारं संसारं धिगस्तु, यत एतौ द्वावपि भ्रातरावज्ञानाद्युहं कुर्वाणौ नरकगामिनो भविष्यतः, | इति ध्यात्वा सा सुव्रतार्या गणिनी समापृच्छय तयोः प्रतिबोधार्थ साध्वोपरिवारयुता चचाल. प्रथम |सा नमिनृपपावें समागमत् , तदा नमिनृपेणाभ्युत्थानपूर्वकं साध्वी वंदिता, ततः साध्वी तस्मै | धर्मोपदेशं ददौ, यथा-चत्तारि परमंगाणि । दुल्लहाणीह जंतुणो ॥ माणुसत्तं सुए सद्धा। संजमं|
सान%ACCORN
-
७
Page #19
--------------------------------------------------------------------------
________________
मदन०
॥१७॥
मी वीरियं ॥ १ ॥ ततः सा साध्वी रहसि नमेरये इदमब्रवीत् - राजन्नस्मिन् भवे दुःख-दायके राज्यतः खलु ॥ गच्छति नरके घोरे । जीवोऽत्राणो न संशयः ॥ १ ॥ ज्येष्टभ्रात्रा समं युद्धं । कर्तुं न युज्यते तव ॥ नमिः प्राह कथं ज्येष्ठ भ्रातायं विद्यते मम ॥ २ ॥ ततः साध्ध्याऽनेन चंद्रयशसा सह तस्य सहोदरभवन संबंधः प्रोक्तः, ततः प्रत्ययार्थ राज्ञा पुष्पमाला पृष्टा, हे मातः ! अहं कस्याः पुत्रः ? तदा पुष्पमालया प्रोक्तं, नूनं त्वमस्या मदनरेखाया एव पुत्रोऽसि, इत्युक्त्वा तया तस्मै मुद्रायुक्तं कंबलं दर्शितं. एवं निजजनन्या साव्या निवारितोऽपि स नमिनृपोऽभिमानाभिभृतो युद्धान्न विरराम ततः सा " साध्वी चंद्रयशसः पार्श्वे गत्वा तस्मै धर्मोपदेशं ददौ तदा चंद्रयशा जगौ भो महासति ! एवंविधे युद्धे जायमाने त्वमत्र किमर्थमागाः ? तदा साध्या स्वकीयद्वितीय पुत्रोत्पत्तिसंबंधस्तस्मै निवेदितः. ततो राजा जगी, हे मातः ! सांप्रतं स मे भ्राता कुत्रास्ति ? साध्या प्रोक्तं येनाधुना तव पुरं सैन्येन वेष्टितमस्ति स एव तव भ्रातास्ति तत् श्रुत्वोत्सुकश्चंद्रयशा युद्धं मुक्त्वा निजभ्रातुर्मिलनाय चचाल. एवं निजं भ्रातरमागच्छंतं श्रुत्वा स नमिनृपोऽपि मानं मुक्त्वा सन्मुखमुपेत्य ज्येष्ठ भ्रातुः पादयोः
चरित्रम्
॥१७॥
Page #20
--------------------------------------------------------------------------
________________
मदन०
॥१८॥
प्रणनाम ज्येष्ठ भ्रातापि तमुत्थाप्य सस्वजे ततस्ताभ्यां द्वाभ्यां भ्रातृभ्यां मिलित्वा सस्नेहं सा साध्वी वंदिता. ततश्चंद्रयशा नृपो नमिंप्रति जगौ हे भ्रातः ! पितुर्मरणादनुराज्यभारधरणपुत्राऽभावादियकालं मया राज्यं कृतं त्वं तु भ्राता मयेयत्कालं न ज्ञातः अधुनैवानया साध्या मात्रा त्वं मम भ्रातेति ज्ञापतिः, अतः परं च मम राज्येन कार्ये नास्ति, अहं स्वग्रेऽपि राज्यं त्याक्तुकाम आसं तव च राज्यभारधारणे योग्यतास्ति तत् श्रुत्वा नमिरप्याह हे भ्रातः ! मामपि राज्यं न रोचते, अतोऽहमपि संयमग्रहणमिच्छामि. चंद्रयशाः प्राह, यदि ज्येष्ठ भ्राता लघुभ्रात्रे राज्यं दत्वा दीक्षां गृह्णाति तदैव युक्तमुच्यते, एवं निजलघुभ्रातरं नमिं पर्यवसाप्य स चंद्रयशा नृपो महोत्सवपूर्वकं व्रतं जग्राह अथ स प्रतापी नमिराजा न्यायेन रज्यं करोतिस्म एवं षण्मासानंतरमेकदा तस्य नमिनृपस्य दाहज्वरे जायमाने वैद्याश्चिकित्सां चक्रुः परं तस्य मनागपि गुणो नाभवत् तदा नृपस्य दाहज्वरशांतये सर्वा राइयो मिलित्वा चंदनं घर्षयामासुः तदा तासां बाहुबलयझणत्कारश्रवणतो नमेर्नृपस्य वेदना प्रत्युत वृद्धिं प्राप्ता तदा राज्ञा पृष्टं, कोऽयं दारुणो रवः श्रूयते ? तदा सेवकैस्तस्य
चरित्रम्
દિવા
Page #21
--------------------------------------------------------------------------
________________
COC46
मदन०
॥१९॥
चंदनघर्षणस्वरूपं प्रोक्तं. राज्ञादिष्टमेतासां पंचशतप्रियाणां हस्तेभ्य एकैकं वलयमुत्तारयत ? तत। एकैकस्मिन् वलये उत्तारिते राज्ञो मनाक् सुखं बभूव. एवं क्रमात् सर्वेषु वलयेषूत्तारितेषु राजा विशेष चरित्रम् सुखमन्वभवत्, एवं ताभिरेकैकमेव वलयं मंगलार्थमेव निजहस्तेषु स्थापितं. तदा राज्ञा पृष्टं, किम- ॥१९॥ धुना राझ्यश्चंदनं न घर्षयंति ? यत् सांप्रतं तासां वलयशब्दो न श्रूयते. तदा मंत्रिणो नृपाय वलयोत्तारणस्वरूपं जगुः. तत् श्रुत्वा संजातवैराग्यो राजा दध्यौ, अहो! भूरिसंयोगः संसारे दुःखायैव भवति, यथा भूरिभिः कंकणशब्दैर्दुःखमभृत् , न तथा स्तोकैरेव तैः, एवमेकत्वे महत्सुखं, यतः-कं- | कर्ण रिभिर्दुःखं । स्वल्पैः स्वल्पतरैः सुखं ॥ यादवस्यैव दृष्टांता-देकाकित्वे महासुखं ॥ १ ॥ यथा यथा महत्तंत्रं । विस्तरश्च यथा यथा ॥ तथा तथा मह दुःखं । सुखं नैव तथा तथा ॥२॥ क्लेशाय विस्तराः सर्वे । संक्षेपास्तु सुखावहाः ॥ परार्थ विस्तराः सर्वे । त्यागमात्महितं विदुः ॥३॥ अथ यदायं मदीयो दाहज्वरः प्रशमं यास्यति, तदा मयावश्यं दीक्षा ग्राह्या. इति ध्यात्वा यावत्स नमिनृपः सुप्तस्तावत्तस्य दाहज्वरः प्रशशाम. अथ प्रातर्वायनादेर्जागरितो भूपो दथ्यौ, अहो ! अद्य मया
-57-ॐॐॐ
Page #22
--------------------------------------------------------------------------
________________
मदन०
564
चरित्रम् ॥२०॥
॥२०॥
स्वप्ने शैलराजोपम ऐरावणकुंभी दृष्टः, स च मदीयं रोग दूरीचकार. यतः-देवता यतयो गावः । पितरो लिंगिनो नृपाः ॥ यद्वदंति नरं स्वप्ने । तत्तथैव भविष्यति ॥ १ ॥ एवं तं ऐरावणं पुनः पुना - यतोऽस्य नमिमुनेर्जातिस्मृतिरभूत् , यथा पूर्वभवे मया श्रामण्यं पालितं, ततः पंचत्वं प्राप्य प्राणते देवलोकेऽहं सुरोऽभवं. ततः स नमिः स्वं पुत्रं राज्येऽभिषिच्य शासनदेवतादत्तरजोहरणः संयमं प्रतिपन्नवान् . तदा शक्रो द्विजवेषमादाय तं परीक्षितुमाययो. स द्विजस्तं नमिराजर्षिप्रत्यवदत्, भो राजस्त्वया सांतःपुरं राज्यं तृणवत् त्यक्त्वा यत्संयमो गृहीतस्तन्न सुंदरं कृतं, त्वया जीवदयापालनायैव दीक्षा गृहीतास्ति, परं त्वद्व्रतग्रहणत एतास्तेंतःपुरस्त्रियो विलापान् कुर्वति, अतस्तवेदं संयमग्रहणं निष्फलमेव. तत् श्रुत्वा नमिराजर्षिरुवाच, भो द्विज! मम व्रतग्रहणं तासां दुःखकारणं न, किंतु लोके स्वस्वार्थहानिरेव दुःखस्य कारणं, ततोऽहमपि स्वार्थमेव साधयामि, परजल्पनेन किं ? द्विज
आह, भो राजर्षे! अधुना ते गृहाणि अंतःपुराणि च ज्वलमानानि संति, त्वं तानि किमुपेक्षसे? | उपेक्षया च लोके तवापवादो भवति, यत आश्रितस्योपेक्षणं पापं, त्वं तु चतुरोऽसि, अतो विचारय ?
5755-5
Page #23
--------------------------------------------------------------------------
________________
AEKAC
नमिराह भो द्विज! अर्थतानि गृहाणि अंतःपुराणि च मदीयानि न संति. पुनराह द्विजः पुर्या ।। मदन० 12 प्राकारमति दुर्गमं ॥ नानायंत्रयुतं राजन् । कारयित्वा परिव्रजेः ॥ १ ॥राजर्षिः प्राह भो भद्र । सं-R ॥२१॥ । यमो नगरं मम ॥ शमाख्यो विहितस्तत्र । प्राकारो नययंत्रवान् ॥ २ ॥ द्विजोऽवोचन्निवासाय । लो
| कानां सुमनोहरान् ॥ प्रासादान् कारयित्वा भोः । क्षत्रिय प्रजेस्ततः ॥ ३ ॥ मुनिः प्रोचे कुधीरेव ।
कुर्यात् पथि वहन् गृहं ॥ निश्चलं यत्र संस्थानं । युक्तं तत्रैव मंदिरं ॥ ४ ॥ द्विजः प्राह निग्रह्यादौ ।। 5 चौरान् सुस्थं पुरं कुरु ॥ स आह चौरा रागाद्या । निग्रहीताश्च ते मया ॥ ५॥ द्विजः प्राह च राजर्षे । 2 ६ नमंति न तवोद्धताः ॥ पार्थिवास्तान् विनिर्जित्य । प्रवज्याग्रहणं कुरु ॥६॥स आह भूरिशो वीरा ।। | मुधा पूर्व जिता मया । यद्यात्मानं जयाम्येक । मेष मे परमो जयः ॥ ७ ॥ इत्यायुत्तरप्रत्युत्तरपरंपरा । विशेषतः श्रीउत्तराध्ययनसूत्रतो ज्ञेया. इत्यादिविप्रोकसर्ववचनान्यवगणय्य यावत् स नमिराजर्षिनिश्चलमना अग्रतोऽचालीत्तावत् स्वरूपस्थ इंद्रो नमिप्रति प्राह, भो राजर्षे ! नूनं त्वं धन्यः कृतार्थश्चासि, त्वया सर्वेऽपि भावारयो जिताः, जगति च प्रशंसापात्रमसि, तस्येत्यादिस्तुतिं कृत्वा शक्रस्तं भावतो
A D5 --
Page #24
--------------------------------------------------------------------------
________________ मदन० चरित्रम् // 22 // // 22 // %EOCEROSSAX नमस्कृत्य स्वर्ग जगाम. क्रमेण स नमिराजर्षिरपि तीनं तपस्तप्त्वा क्षीणसर्वकर्मा केवलज्ञानयुतो मुक्तिं ययौ. अथ सा मदनरेखा साव्यपि संयतिनीपाश्वे स्थिता तीव्र तपस्तपस्यंती सर्वकर्मक्षयात् केवलज्ञानमवाप्य मुक्तिं ययौ. // इति श्रीमदनरेखाचरित्रं समाप्तं // श्रीरस्तु॥ आ ग्रंथनी बोजी आवृत्ति जामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे श्रीशुभशीलगणीजीए रचेला कथाकोषमाथी उद्धरीने तेनी मूलभाषामां बनाता प्रयासे सुधारो वधारो करीने पोताना श्री जैनभास्करोदयप्रेसमां छापी प्रसिद्ध कयों छे. // // समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् // श्रीरस्तु // Steॐॐॐ