________________
मदन०
॥७॥
दध्यौ, धिगस्तु मां, याऽहं पत्युर्मरणहेतुरभवं. अथ मम भर्ता तु मृतः, स्त्रियाश्च भर्तेव शरणं. किंच | प्रातः स दुष्टो मणिरथो यदि मां गृहीष्यति, तदा को मे रक्षणं करिष्यति ? अथ स्वर्गापवर्गसुखदं शीलं तु मया केनाप्युपायेन रक्षितव्यमेव इति ध्यात्वा सा मदनरेखा ततः प्रच्छन्नं वनमध्ये निर्ययौ एवं गच्छंती सा मदनरेखा द्वितीयदिने प्रभाते महाटव्यां प्राप्ता, तत्र कस्मिंश्चिजलाशये | स्नानं विधाय पयः पीत्वा क्वापि कदलीगृहे सुप्ता एवं तत्र स्थिता फलाहारपरा सा सप्तमे दिने पुत्रमसूत् ततः सा प्रभते तस्य बालस्य करांगुल्यां युगबाहुनामांकितां मुद्रां प्रक्षिप्य तं च रत्नकंबलेन वेष्टयित्वा वृक्षच्छायायां मुक्त्वा स्ववस्त्राणि क्षालयितुं निकटस्थे सरसि गता. तत्र पयोमध्ये प्रविष्टा सा मदनरेखा जलहस्तिना शुंडया गृहीत्वा व्योम्न्युल्लालिता. तदानीमेव नंदीश्वरतीर्थयात्रार्थं प्र स्थितेनैकेन खेचरेण नभसः पतंती सा जगृहे. तद्रूपमोहितः स खेचरस्तां वैताढये निनाय. अथ तल विलापं कुर्वती सा खेचरेण तत्कारणं पृष्ठा सर्व निजवृत्तांतं जगौ भो खेचर! यत्र स्थानादहं स्वयात्रानीता, तत्र मकः पुत्रः प्रसूतोऽभूत् तं पुत्रं षं कदलीगृहे मुक्त्वाहं वस्त्रप्रक्षालनार्थ यावत्स -
चरित्रम्
11911