________________
मदन०
॥ ६ ॥
वा ॥ ते सर्वे क्षमतु मे । क्षमाम्यहमपीह तान् ॥ १ ॥ तिर्यक्त्वे सति तिर्यचो । नरकेऽपि च नारकाः ॥ अमरा अमरत्वे च मनुष्यत्वे च मानुषाः ॥ २ ॥ ये मया स्थापिता दुःखे | सर्वांस्तान् क्षमयाम्यहं ॥ क्षमंतु मम तेऽपीह | मैत्रीभावमुपागताः ॥ ३ ॥ जीवितं यौवनं लक्ष्मी । रूपं प्रियसमागमः ॥ चलं सर्वमिदं वात्या । नर्तिताब्धितरंगवत् ॥ ४ ॥ व्याधिजन्मजरामृत्यु - प्रस्तानां प्राणिना'मिह ॥ विना जिनोदितं धर्मं । शरणं कोऽपि नापरः ॥ ९ ॥ सर्वेऽपि जीवाः स्वजना । जाताः परजानाश्च ते ॥ प्रतिबंधं न कुर्वेऽपि । तेषु केष्वपि मोहतः ॥ ६ ॥ एक उत्पद्यते जंतु - रेक एव विपद्यते ॥ सुखान्यनुभवत्येको । दुःखान्यपि स एव हि ॥ ७ ॥ न सा जाइ न सा जोणी । न तं ठाणं न तं कुलं ॥ न जाया न मुआ जत्थ । सव्वे जीवा अनंतसो ॥ ८ ॥ एगोहं नत्थि मे कोइ । नाहमन्नस्स कस्सवि ॥ एवमदीणमणसा । अप्पाणमणुसासए ॥ ९ ॥ इत्याद्यनित्यभावानां भावयन्, मदनरेखयापि च प्रोत्साहितः स युगबाहुः शुभध्यानपरायणो विपद्य ब्रह्मदेवलोके देवोऽभूत्. अथ वैद्ययुतस्तत्रागतश्चंद्रयशा निजतातं युगबाहुं भृतं विलोक्य मृशं रुरोद मदनरेखापि चिरं विलापं विधायेति
1414THE
चरित्रम
॥ ६॥