SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ मदन० 1-4ERE ॥ १॥ किंच तस्य राज्ञोतःपुरे मनोहरा राइयो वियंते, तासु सत्स्वपि स मूढ इव कथमन्यां स्त्रियं वांछति ? एवंविधमनोरथेन स नूनं नरकगामी भविष्यति. किंच मम भर्तरि जीवति यः कोऽपि मां भो- है चरित्रम् स्तुमिच्छति, स नूनं यमातिथिरेव भविष्यति. यदिवा केनचित्कूटोपायेन स कदाचित् मह्यं बलात्कार करिष्यति, तदाहं मदियशरीरार्पणस्थाने तस्मै मम प्राणानेव दास्ये. उत्तमोश्चहामुत्र विरुझं नाचरंति. । यतः-जीवघातादलीकोक्तात् । परद्रव्यापहारतः ॥ परस्त्रीकामनेनापि । व्रति नरकं न के ॥१॥ 18 परस्त्रीग्रहणे वांछा । न कार्या भूभुजा क्वचित् ॥ यतो भूपानुगा लोका । भवंति जगतीतले ॥ २ ॥ एवं विधानि तस्या वचनानि निशम्य विलक्षीभृता सा दासी ततः पश्चानिवृत्य भूपोपांते गत्वा | मदनरेखोक्तं सकलं वृत्तांतं कथयामास. तत् श्रुत्वा स कामातुरो नृपो विशेषतस्ता मदनरेखां भोक्तुं दभ्यो, नूनं युगबाही जीवति मामियं नांगीकरिष्यति, ततः केनाप्युपायेन प्रथमं तं सुबाहुमेव हन्मि, पश्चान्निराधारा सा सुखेनैव मां स्वीकरिष्यति. इति ध्यात्वा स दुष्टो निजं लघु भ्रातरं हंतुमवसरं विलोकयति. इतोऽन्यदा तया मदनरेखया निशाशेषे स्वप्नमध्ये संपूर्णेदुर्दृष्टः, ततस्तया स स्वप्नवृत्तांतो
SR No.022767
Book TitleMadanrekha Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj
Publication Year1932
Total Pages24
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy