________________
मदन०
॥ १४ ॥
भ्रमतां प्राण- भाजां पतिसुतादयः ॥ संबंधा मुरिशो भूता । भविष्यति भवंति च ॥ १ ॥ मयैष तनयो जातो ऽनंतशो भवभ्रांतितः । जनिताहं तथानंत-वारांश्चानेन भूतले ॥ २ ॥ अथैतासां साध्वानां चरणा एव मम शरणं, इत्युक्त्वा मदनरेखा विसृष्टः स सुरो देवलोकं ययौ ततः सा तासां साध्वीनां पार्श्वे दीक्षां गृहीत्वा संजातसुव्रताह्ना नानाविधतपांसि तनुतेतरां इतस्तस्य भूपस्य . गृहे तस्य बालस्यागमन प्रभावेण सर्वेऽपि रिपवस्तं भूपं समागत्य नताः, ततस्तेन पद्मरथभूपेन तस्य नमिरिति नाम चक्रे अथ धात्रीभिः पाल्यमानः स नमिकुमारः क्रमात् प्राप्तयौवन उपाध्यायांति के धर्मशास्त्रकलाभ्यासं चकार ततो राज्ञा क्रमाद्राजकुलजाताभिः स्वरूपपराभूतामरीभिरष्टोत्तरसहस्रक| न्याभिः सह तस्य विवाहो विहितः ततो राजा तं राज्ययोग्यं ज्ञात्वा राज्येन्यस्य श्री ज्ञानसागरसूरिपार्श्वे प्रव्रज्यां जग्राह तीव्रं तपश्च तप्त्वा लब्धकेवलज्ञानः स पद्मरथो राजा शिवं ययो. अथ नतानेकक्षमापाल मौलिः स नमिराजा राज्यं कुर्वाणः शक्रसमो रराज. इतश्च यस्यां रात्रौ स मणिरथनृपो निजं लघुभ्रातरं युगबाहुं जघान तस्यामेव निशि सर्पदष्टः स मृत्वा चतुर्थ्यां नरकावनौ गतः ततः
चरित्रम्
॥ १४ ॥