SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ मदन० ॥१७॥ मी वीरियं ॥ १ ॥ ततः सा साध्वी रहसि नमेरये इदमब्रवीत् - राजन्नस्मिन् भवे दुःख-दायके राज्यतः खलु ॥ गच्छति नरके घोरे । जीवोऽत्राणो न संशयः ॥ १ ॥ ज्येष्टभ्रात्रा समं युद्धं । कर्तुं न युज्यते तव ॥ नमिः प्राह कथं ज्येष्ठ भ्रातायं विद्यते मम ॥ २ ॥ ततः साध्ध्याऽनेन चंद्रयशसा सह तस्य सहोदरभवन संबंधः प्रोक्तः, ततः प्रत्ययार्थ राज्ञा पुष्पमाला पृष्टा, हे मातः ! अहं कस्याः पुत्रः ? तदा पुष्पमालया प्रोक्तं, नूनं त्वमस्या मदनरेखाया एव पुत्रोऽसि, इत्युक्त्वा तया तस्मै मुद्रायुक्तं कंबलं दर्शितं. एवं निजजनन्या साव्या निवारितोऽपि स नमिनृपोऽभिमानाभिभृतो युद्धान्न विरराम ततः सा " साध्वी चंद्रयशसः पार्श्वे गत्वा तस्मै धर्मोपदेशं ददौ तदा चंद्रयशा जगौ भो महासति ! एवंविधे युद्धे जायमाने त्वमत्र किमर्थमागाः ? तदा साध्या स्वकीयद्वितीय पुत्रोत्पत्तिसंबंधस्तस्मै निवेदितः. ततो राजा जगी, हे मातः ! सांप्रतं स मे भ्राता कुत्रास्ति ? साध्या प्रोक्तं येनाधुना तव पुरं सैन्येन वेष्टितमस्ति स एव तव भ्रातास्ति तत् श्रुत्वोत्सुकश्चंद्रयशा युद्धं मुक्त्वा निजभ्रातुर्मिलनाय चचाल. एवं निजं भ्रातरमागच्छंतं श्रुत्वा स नमिनृपोऽपि मानं मुक्त्वा सन्मुखमुपेत्य ज्येष्ठ भ्रातुः पादयोः चरित्रम् ॥१७॥
SR No.022767
Book TitleMadanrekha Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj
Publication Year1932
Total Pages24
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy