________________
मदन०
॥१८॥
प्रणनाम ज्येष्ठ भ्रातापि तमुत्थाप्य सस्वजे ततस्ताभ्यां द्वाभ्यां भ्रातृभ्यां मिलित्वा सस्नेहं सा साध्वी वंदिता. ततश्चंद्रयशा नृपो नमिंप्रति जगौ हे भ्रातः ! पितुर्मरणादनुराज्यभारधरणपुत्राऽभावादियकालं मया राज्यं कृतं त्वं तु भ्राता मयेयत्कालं न ज्ञातः अधुनैवानया साध्या मात्रा त्वं मम भ्रातेति ज्ञापतिः, अतः परं च मम राज्येन कार्ये नास्ति, अहं स्वग्रेऽपि राज्यं त्याक्तुकाम आसं तव च राज्यभारधारणे योग्यतास्ति तत् श्रुत्वा नमिरप्याह हे भ्रातः ! मामपि राज्यं न रोचते, अतोऽहमपि संयमग्रहणमिच्छामि. चंद्रयशाः प्राह, यदि ज्येष्ठ भ्राता लघुभ्रात्रे राज्यं दत्वा दीक्षां गृह्णाति तदैव युक्तमुच्यते, एवं निजलघुभ्रातरं नमिं पर्यवसाप्य स चंद्रयशा नृपो महोत्सवपूर्वकं व्रतं जग्राह अथ स प्रतापी नमिराजा न्यायेन रज्यं करोतिस्म एवं षण्मासानंतरमेकदा तस्य नमिनृपस्य दाहज्वरे जायमाने वैद्याश्चिकित्सां चक्रुः परं तस्य मनागपि गुणो नाभवत् तदा नृपस्य दाहज्वरशांतये सर्वा राइयो मिलित्वा चंदनं घर्षयामासुः तदा तासां बाहुबलयझणत्कारश्रवणतो नमेर्नृपस्य वेदना प्रत्युत वृद्धिं प्राप्ता तदा राज्ञा पृष्टं, कोऽयं दारुणो रवः श्रूयते ? तदा सेवकैस्तस्य
चरित्रम्
દિવા