________________
मदन०
॥ ९ ॥
पालयति ततस्त्वं प्रसन्नीभूय मदीयां प्रार्थनां स्वीकुरु ? तत् श्रुत्वा तया ध्यातमरेरे! ममैवं प्रतिकूल कर्मसमागमो जातः, मयैवं व्यसनपरंपरेववानुभूयते, अथैवं महासंकटे पतिताहं कथं निजशीलरक्षणं करिष्ये? कामपीडितोऽयं खेचरः किमपि कृत्याकृत्यं न ज्ञास्यति इदानीं तु मया केनापि |च्छलेन कालविलंब एवं करणीयः इति विचित्य सा तं जगाद भो खेचराधीश ! प्रथमं त्वं मा | नंदीश्वरद्वीपं नय ? तत्र देवान्नत्वा पश्चादहं त्वदुक्तं करिष्ये इति श्रुत्वा तुष्टेन तेन खगेन सा क्षणा - नंदीश्वरद्वीपं नीता, तत्र च सैवं शाश्वतानि जिनचैत्यानि वंदतेस्म, यथा- चत्वारोंचनशैलेषु । दधि- मुखेषु षोडश ॥ द्वात्रिंशच्च रतिकरा - भिधानेषु जिनालयाः ॥ १ ॥ योजनानां शतं दीर्घाः । पंचाशद्विस्तृताश्च ते ॥ द्विसप्तत्युच्छ्रिताः सर्वे । द्विपंचाशद्भवत्यमी ॥ २ ॥ एवं तल ऋषभचंद्राननवारिषेणवर्धमानाभिधान् शाश्वतजिनान्नत्वा सा मदनरेखा तेन खेचरेण सह तत्र स्थितं मणिचूडमुनीश्वरं | नमस्कृत्य यथोचितस्थाने विद्याधरसभायां धर्मोपदेशं श्रोतुं समुपविष्टा तदा स ज्ञानवान् मणिचूडमुनीश्वरोऽपि निजपुत्रहृदयविचारं विज्ञाय तदुचितां देशनां ददौ, यथा भो भो भव्यलोकाः ! कुमार्गः
चरित्रम्
-118.11