Page #1
--------------------------------------------------------------------------
________________
३०
श्री श्रीवल्लभोपाध्यायप्रणीतम्
चतुर्दशस्वरस्थापनवादस्थलम्
अनुसन्धान ४५
म. विनयसागर
व्याकरण और न्यायशास्त्र आदि ग्रन्थों के कुछ कठिन विषयो पर शास्त्र चर्चा/शास्त्रार्थ/विचार-विमर्श करना यह विद्वानों का दैनिक व्यवसाय रहा है । किसी भी विषय को लेकर अपने पक्ष को स्थापित करना और प्रतिपक्ष का खण्डन करना यह कर्तव्य सामान्य सा रहा है। इसी प्रकार व्याकरण में स्वर १४ हैं, अधिक हैं या कम ?, इसके सम्बन्ध में श्री श्रीवल्लभोपाध्याय ने चर्चा की और सारस्वत व्याकरण और अन्य ग्रन्थों के आधार पर १४ स्वर ही स्थापित किए ।
कवि-परिचय
अनुसन्धान अंक २६, दिसम्बर २००३ में श्रीवल्लभोपाध्याय रचित मातृका श्लोकमाला के प्रारम्भ में उनका संक्षिप्त परिचय दिया गया है । इनका और इनकी कृतियों का विशेष परिचय जानने के लिए अरजिनस्तव: और हैमनाममालाशिलोञ्छ में मेरी लिखित भूमिका देखनी चाहिए ।
जन्म - भूमि
इस सम्बन्ध में काफी विचार विमर्श किया जा चुका है । श्रीवल्लभ राजस्थान के ही थे, यह भी प्रामाणित किया जा चुका है । व्याकरण जैसे शुष्क विषय पर अ. आ. का अन्तर बतलाते हुए सहजभाव से यह लिखना "आईडा बि भाईडा, वडइ भाई कानउ" यह सूचित करता है कि वे जिस किसी शाला / पाठशाला में पढ़े हों, वहाँ इस प्रकार का अध्ययन होता था, जो कि विशुद्ध रूप से राजस्थानी का ही सूचक है । अर्थात् श्रीवल्लभ (बाल्यावस्था का नाम ज्ञात नहीं) जन्म से ही राजस्थानी थे इसमें संदेह नहीं ।
I
अनुसन्धान अंक २८ में श्रीपार्श्वनाथस्तोत्रद्वयम् भी प्रकाशित हुए हैं जिनका कि इनकी कृतियों में उल्लेख नहीं था ।
Page #2
--------------------------------------------------------------------------
________________
सप्टेम्बर २००८
विषय-वस्तु
प्रारम्भ में ही स्वर १४ ही हैं इसकी स्थापना करने के लिए प्रतिवादी से ५ पाँच प्रश्न पूछे हैं :
१. स्वर क्या है अथवा वह शब्द का पर्याय है ? २. पर्याय है तो वह नासिका से उत्पन्न पर्याय है ? ३. अथवा स्वरशास्त्र में प्रतिपादित निषादादिका अवबोधक है ? ४. क्या उदात्तादि का ज्ञापक है ? ५. अथवा विवक्षित कार्यावबोधक अकारादि संज्ञा का प्रतिपादक है ? इन पाँच विकल्पो को उद्भूत करके इनका समाधान भी दिया गया है :
१. विविध जाति के देवता, मनुष्य, तिर्यञ्च और पक्षी आदि की विविध भाषाएं सुस्वर, दुस्वर आदि अनेक शब्द पर्याय होते हैं अतः यह स्वीकार नहीं किया जा सकता ।
२. नासिका-उद्भूत पर्याय भी स्वीकार नहीं किए जा सकते, क्योंकि यह त्रिइन्द्रिय, पंचेन्द्रिय जीवों में भी सम्भव होती है। मनुष्यों में शोभन और अशोभन होती है । चन्द्र, सूर्य, स्वरोदय शास्त्र आदि से नासिक स्वर भी अनेक प्रकार के होते हैं, अतः यह भी सम्भव नहीं है ।
३. संगीत शास्त्र में निषाद आदि ७ स्वर माने गये हैं अतः यह उसके अन्तर्गत भी नहीं आता ।
४. उदात्त-अनुदात्त-प्लुत की दृष्टि से भी यह सम्भव नहीं है ।
५. विवक्षित कार्यावबोधक संज्ञा प्रतिपादक भी नहीं है । इसको सिद्ध करने के लिए नरपतिदिनचर्या ने १६ स्वर स्वीकार किए हैं, किन्तु अनुभूतिस्वरूपाचार्य ने सारस्वत व्याकरण में 'अइउऋलसमाना:' 'उभये स्वराः' 'हुस्वदीर्घप्लुतभेदाः सवर्णा' 'ए ऐ ओ औ सन्ध्यक्षराणि' का प्रतिपादन करते हुए १४ ही स्वर स्थापित किए हैं, वे हैं :- अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ, इन स्वरों को स्थापित करने के लिए और सारस्वत व्याकरण को महत्ता देते हुए पाणिनि व्याकरण, कालापक व्याकरण, सिद्धहेम व्याकरण, काव्यकल्पलता, अनेकार्थसंग्रह, विश्वप्रकाश, वर्णनिघण्टु, पाणिनि शिक्षा आदि के प्रमाण दिए हैं । ल की दीर्घता को सिद्ध करते हुए पाणिनि
Page #3
--------------------------------------------------------------------------
________________
३२
अनुसन्धान ४५
व्याकरण का आश्रय लिया है और रामचन्द्र और वासुदेव आदि के मत को अस्वीकार किया है। अर्थात् श्रीवल्लभोपाध्याय स्वर १६ या २१ नहीं मानते हैं अपितु १४ ही मानकर उसकी स्थापना भी करते हैं । रचना-काल
प्रस्तुत लघु कृति का नाम चतुर्दशस्वरस्थापनवादस्थल है । अन्तिम प्रशस्ति में लिखा है :- खरतरगच्छ में श्री जिनराजसूरि के विजयराज्य में उपाध्याय ज्ञानविमल के शिष्य श्रीवल्लभोपाध्याय ने इस वाद की रचना की है। श्रीजिनराजसूरिजी संवत् १६७४ में गच्छनायक बने थे, अत: यह रचना भी संवत १६७४ के बाद की है।
॥ ऐं नमः ॥ श्रीसिद्धी भवतान्तरां भगवतीभास्वत्प्रसादोदयाद्, वाचां चञ्चुरचातुरी स्फुरतु च प्रज्ञावदाश्चर्यदा । नव्यग्रन्थसमर्थनोद्यतमतिप्रत्यक्षवाचस्पतेविद्वत्पुंस इहाशु शस्यमनसस्तच्छ्रोतुकामस्य च ॥१॥ सन्ति स्वराः के कति च प्रतीताः, सारस्वतव्याकरणोक्तयुक्त्या । समस्तशास्त्रार्थविचारवेत्ता, कश्चिद् विपश्चिद् परिपृच्छतीति ॥२॥ पुरातनव्याकरणाद्यनेकग्रन्थानुसारेण सदादरेण । तदुत्तरं स्पष्टतया करोति, श्रीवल्लभः पाठक उत्सवाय ॥३॥
__इह केचिद् अहङ्कारशिखरिशिखां समारूढाः सारासारविचारकरणचातुरीव्यामूढाः कूर्चालसरस्वतीति बिरुदमात्मनः पाठयन्तः स्वगल्लझल्लरी-झात्कारेण अविद्यानटी नाटयन्तः सकलशाब्दिकचक्रचक्रवर्तिचूडामणिमात्मानं मन्यमानाः स्वराणां चतुर्दशसंख्यासत्तां विप्रतिपद्यमाना अतुच्छमात्सर्याद्यनणुगुणमत्कुणतल्पकल्पा: संकल्पितानल्पविकल्पाः प्रजल्पन्ति जल्पाकाः स्वराः कियन्त ? इति वदन्तो वादिनः सानन्दं सादरं प्रष्टव्या भवन्ति विशिष्टमतिभिः प्रतिवादिभिः -
१. मति के
२. तद्यथा पाठोऽधिकः कै
Page #4
--------------------------------------------------------------------------
________________
सप्टेम्बर २००८
१. कोऽयं स्वरो नाम ? किं शब्दपर्यायः ?
२. उत नासिकासमुद्भूतपर्यायः ?
३. अथवा निषादादीनामवबोधकः ?
४. किमुत उदात्तादीनां ज्ञापकः ?
५. अहोस्वित्' विवक्षितकार्यावबोधकाऽकारादिसंज्ञाप्रतिपादक: ?
इति विकल्पपञ्चतयी विषयपञ्चतयी च जनमनांसि क्षोभयतीति प्रतिभाति ।
१. यदि आद्यस्तर्हि विविधजातीनां सुरनरतिर्यग्विहगादीनां विविधभाषाभाषकत्वात् सुस्वरदुः स्वरोच्चैर्नीचैरादिभेदभिन्नोऽप्यनेकधा शब्दपर्यायः स्वरोऽवधार्यः । इत्याद्यः ॥१॥
२. अथ द्वितीयस्तर्हि सोऽपि त्रीन्द्रिय- पञ्चेन्द्रियजीवानामेव तत्सद्भावाद् द्विविधोऽपि । पुनः शोभनाऽशोभनभेदाभ्यां द्विविधो मनुष्याणामेव । चन्द्र १सूर्यो २ - च्च ३ - नीच ४- तिर्यगादि ५- लक्षणैरनेकधा स्वरोदयशास्त्रात् नासिकास्वरोऽवगन्तव्यः । इति द्वितीयः ||२||
३. अथ चेत् तृतीयस्तर्हि सोऽपि निषाद १ - ऋषभ २ - गान्धार ३षड्ज ४- मध्यम ५- धैवत ६ - पञ्चम ७ इति लक्षणैः तन्त्रीकण्ठोद्भवैः सप्तविधः । यदमर:
निषादर्षभगान्धार- षड्जमध्यमधैवताः ।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः । [ १.७.१]
इति सप्तविधोऽवसेयः । इति तृतीयः ।
४. अथ चतुर्थश्चेत्तर्हि उदात्तानुदात्तस्वरितानां त्रैविध्यात् त्रिविधः ।
यदमरः
उदात्ताद्यास्त्रयः स्वराः [ १.६.४ ]
इति, अकारादीनामेव एते । इति चतुर्थः ॥४॥
३३
१. आहोस्वित् कै.
३. पाठो नास्ति जे प्रतौ ।
२. स्वरोऽवधार्यः नास्ति जे प्रतौ ।
४. एव नास्ति कै.
Page #5
--------------------------------------------------------------------------
________________
३४
अनुसन्धान ४५
५. अथ पञ्चमो विवक्षितकार्यावबोधकाऽकारादिसंज्ञाप्रतिपादकश्चेत् तर्हि सोऽपि द्विधा, ज्योतिःशास्त्रे व्याकरणे च द्विधा दर्शनात् ।
तत्र ज्योतिःशास्त्रानुसारेण षोडशप्रकार:, यदवदत् नरपतिदिनचर्यायां नरपतिदिनचर्याकार:
मातृकायां पुरा प्रोक्ताः स्वराः षोडशसंख्यया ।
इति । तथापि तन्मते कार्यकाले अ इ उ ए ओ पञ्चैवैते कार्यकारिणो ज्ञेयाः यत् नरपतिदिनचर्याकार:
मातृकायां पुरा प्रोक्ता: स्वराः षोडशसंख्यया । तेषां द्वावन्तिमौ त्याज्यौ चत्वारश्च नपुंसकाः ॥ शेषा दश स्वरास्तेषु स्यादेकैकं द्विकं द्विकम् । ज्ञेया अतः स्वराद्यास्ते स्वराः पञ्च स्वरोदये ॥ [ ]
इति । ऋ ऋ ल ल एतान् चतुःसंख्यान् नपुंसकान्, द्वौ अन्तिमौ अं अ: इत्येतौ च त्यक्त्वा, अ इ उ ए ओ एते पञ्च कार्यकारिणः स्वरा: स्वरोदये ज्ञेयाः । इति ज्योतिःशास्त्रे षोडशप्रकारो अकारादिसंज्ञाप्रतिपादकः स्वरशब्दोऽवगन्तव्यः ।
अथ भो ! भो ! व्याकरणाद्यनेक-ग्रन्थानुसारेण स्वराः कियन्त इति प्रतिपादयन्ति भवन्तः तत्रभवन्तः, तहि तत्रैवं ब्रूम:
___अहो व्याकरणाद्यनेकग्रन्थानुसाराणां चतुर्दशसंख्यत्वदर्शनात् चतुर्दश स्वराः ।
अत्र वादी वदति - नैवम्, अ इ उ ऋ लु समानाः [संज्ञाप्र० १.] इत्यनेन सूत्रेण अकारादीनां पञ्चानामेव समानसंज्ञाविधानात् । तदनन्तरं
ए ऐ ओ औ सन्ध्यक्षराणि [संज्ञाप्र० ३.] इत्यनेन सूत्रेण एकारादीनां चतुर्णां सन्ध्यक्षरसंज्ञाविधानात् । तत उभये स्वराः [संज्ञाप्र० ४] इत्यनेन सूत्रेण अकारादीनां पञ्चानां चतुर्णां च एकोरादीनां १. तत्रभवन्तः नास्ति ज जे. प्रतौ २. व्याकरणेषु अकारादीनां स्वराणां कै. प्रतौ । ३. कै. प्रतौ एकारादीनां चतुर्णा सन्ध्यक्षरसंज्ञाभिधानात्. तत उभये स्वराः इत्यनेन सूत्रेण।
Page #6
--------------------------------------------------------------------------
________________
सप्टेम्बर २००८
स्वरसंज्ञाविधानात् नवैव स्वरा:, न चतुर्दश स्वराः इति श्रीमदनुभूतिस्वरूपा - चार्यवचनात् ।
अत्र प्रतिवादी वादिनं प्रति वदति
7
कथं भो विद्वन् ! 'उभये स्वरा:' [संज्ञाप्र० ४.] इति पञ्चवर्णात्मके सूत्रे एतद्वृत्तौ च 'अकारादयः पञ्च चत्वार एकारादय उभये स्वरा उच्यन्ते ।' इति त्रयोविंशतिवर्णात्मिकायां साक्षात् नवेति पदस्य अप्रतिपादनात् कथं नव स्वरा इति नियमः कर्तुं शक्यते ?
अत्र वादी वदति
'अकारादयः पञ्च चत्वार एकारादय" इति वृत्तौ नियमस्यैव करणात् नवेति पदस्य ग्रहणे प्रयोजनाभावात् ।
३५
अत्र प्रतिवादी प्रतिवदति
नैवम्, नव स्वरा, इत्यङ्गीकरणे दधि आनय, गौरी अत्र, वधू आसनम् इत्यादिषु प्रयोगेषु 'इयं स्वरे' [ स्वरसन्धि १ ] 'उ वम्' [ स्वरसन्धि ५ ] इत्यादिषु सूत्रेषु स्वरे इति पदेन नवानामेव स्वरेण अग्रहणात् (स्वराणां ग्रहणाद्), दीर्घानामग्रहणात् 'इयं स्वरे' 'उ वम्' इत्यादीनां प्राप्तेरभावात्, दध्यानय इत्यादीनामुदाहरणानां सिद्धिर्न स्यात् ।
अथ चेत्, 'ह्रस्वदीर्घप्लुतभेदाः सवर्णा:' [संज्ञाप्र ० २. ] इत्यनेन सूत्रेण दीर्घग्रहणात् सिद्धिर्भविष्यति । एवं चेत् तर्हि स्वरसंज्ञाव्याघातात् 'इयं स्वरे दीर्घे च' इतीदृशं सूत्रं स्यात्, न तथा । अतः स्वराः चतुर्दशैव सर्वव्याकरणादिशास्त्र - सम्मतत्वात् सर्वशिष्टप्रमाणत्वाच्च ।
ननु सरस्वतीविहितसूत्रस्य अनुभूतिस्वरूपाचार्यविहितव्याख्यानस्य च अल्पाक्षरैः समस्तपुराणव्याकरणसम्मताऽनल्पार्थसूचनात् अइउऋलृसमानाः [ संज्ञाप्र० १] इति सूत्रेण समाना इत्यस्य अयमर्थ:- समानं तुल्यं मानं परिमाणं येषां ये समाना: 12
१. पञ्च चत्वार एकारादयः नास्ति कै. प्रतौ ।
२. 'प्रति' नास्ति कै.
३. कै. प्रतौ- ननु अकारादयः पञ्चवर्णा असदृशं विलक्षणमाकारं विभ्राणाः कथं समानपरिमाणाः येन समानं परिमाणं येषां ते सम्मानपरिमाणा इत्यर्थः कथ्यते ?
Page #7
--------------------------------------------------------------------------
________________
३६
अनुसन्धान ४५
सत्यम्, उदात्तानुदातस्वरितभेदात् त्रयस्तावद् अकाराः । पुनस्ते सानुनासिक - निरनुनासिकभेदात् द्विविधा - केचिदकाराः उदात्तानुदात्तस्वरिताः सानुनासिकाः केचिदकाराः उदात्तानुदात्तस्वरिता: निरनुनासिकाः । इति अकार: षोढा भिद्यते । एवं दीर्घप्लुतयोरपि प्रत्येकं भेदकथनात् अष्टादशधा भिद्यते अवर्णः । एवम् इवर्णादयोऽपि । इत्थं समानपरिमाणत्वयुक्तत्वात् समानसंज्ञा अन्वर्था अकारादीनामित्यर्थः ।
ननु एवं सति अकारादीनां पञ्चानामेव समानसंज्ञासद्भावे गङ्गानामित्यादौ दीर्घाकारादीनां समानकार्यं न स्यात् इत्याशङ्कां निराकर्तुं अनुक्तामपि समानातिसंख्यां पुराणव्याकरणानुसारिणीं प्रमाणयितुं ह्रस्वदीर्घप्लुतैः स्थानप्रयत्नादिभिश्च सवर्णसंज्ञां ज्ञापयितुं च ' ह्रस्वदीर्घप्लुतभेदाः सवर्णाः' [संज्ञाप्र० २.] इति परिभाषासूत्रं व्यरचयद् आचार्य:, अनियमे नियमकारिणी परिभाषेति परिभाषालक्षणात् पूर्वसूत्रेण समानसंज्ञाया अनिश्चयीकरणात् 'ह्रस्वदीर्घप्लुतभेदाः सवर्णा.' [संज्ञाप्र० २.] इति परिभाषासूत्रेण ह्रस्वदीर्घयोः सावर्ण्यात् सरस्वतीकृते सूत्रे ह्रस्वोक्त्या दीर्घसंग्रह इतिदपि दीर्घग्रहणात् 'दश समाना:' [ कातन्त्र १|१|३] इति समानसंज्ञां निरणयत् ।
अपरञ्च स्थानप्रयत्त्राभ्यामपि सवर्णाः [ 1
इति सवर्णसंज्ञां प्रज्ञापयत् श्रीमदन भूतिस्वरूपाचार्यः ।
ननु प्लुतभेदयोस्तु समानसंज्ञां प्लुतभेदयोस्तु सवर्णसंज्ञामेव इति हूस्वदीर्घप्लुतभेदा इत्यत्र भेदशब्दग्रहणात् स्थानप्रयत्नयोर्ग्रहणात् स्थानप्रयत्नाभ्यां अकारादीनां व्यञ्जनानां च सवर्णसंज्ञादर्शनात्, तथा च पाणिनिः - 'तुल्यास्यप्रयत्नं सवर्णम्' [पाणिनि १.१.९] इति तथा च कालापकव्याकरणम् - 'दश समाना:' [कातन्त्र ० १ ११३] तस्मिन् वर्णसमाम्नायविषये आदौ ये दशवर्णास्ते समानसंज्ञा भवति । 'तेषां द्वौ द्वावन्योन्यस्य सवर्णी' [कातन्त्र. १११४] । तेषामेव दशानां समानानां मध्ये यौ द्वौ द्वौ वर्णौ तौ अन्योन्यस्य परस्परं सवर्णसंज्ञौ भवतः । सवर्णा ९
अ आ इ ई उ ऊ ऋ ऋ लृ लृ
तेषां ग्रहणं व्यक्त्यर्थं तेन ह्रस्वयोर्द्वयोः दीर्घयोश्च द्वयोः सवर्णसंज्ञा सिद्धेतीति ।
1
२. अन्योन्यसंज्ञौ इति कै.
1
१. समानसंज्ञा प्लुतभेदयोस्तु नास्ति प्रतौ । ३. व्यक्तिरर्थः प्रयोजनमस्य करणस्य तत् कै. 1
Page #8
--------------------------------------------------------------------------
________________
सप्टेम्बर २००८
तच्चैवम्
हुस्वदीर्घः अ आ १, दीर्घहस्व: आ अ २, हुस्वहस्वः अ अ ३, दीर्घदीर्घः आ आ ४. इति चतुर्भङ्गी । तदुक्तम्
क्रमोत्क्रमस्वरूपेण सवर्णत्वं निवेदितम् ।
इष्टादपि सवर्णत्वं भणितं ऋलकारयोः ॥१॥ [ ]
इति । तथा च हैमव्याकरणम्-लृदन्ताः समानाः [सिद्धहेम. १.१.७] इति । तथा च नरपतिः
मातृकायां पुरा प्रोक्ता: स्वराः षोडशसंख्यया । तेषां द्वावन्तिमौ त्याज्यौ चत्वारश्च नपुंसकाः ॥ शेषा दश स्वरास्तेषु स्यादेकैकं द्विकं द्विकम् ।
इति । एवं अकारादीनां प्रत्येकं युग्मयुग्मत्वेन सवर्णत्वात्-समानसंज्ञा सिद्धा । प्लुतस्य च सवर्णसंज्ञासद्भावेपि सन्ध्यादिकार्येषु सन्धिकार्यानहत्वात् न समानसंज्ञेति ।
ननु लोकेऽपि अ-इ-उ-ऋ-ल इति हूस्वपञ्चाक्षराणां पञ्चदीर्घाक्षरैः सह रेखाद्याकृतिविशेषे सत्यपि 'एकदेशविकृतं अनन्यवद्भवति' इति न्यायादभेदात् 'वर्णग्रहणे जातिग्रहणम्' इति न्यायेनाऽपि च एकवर्णग्रहणे तज्जातीयस्य अनेकस्यापि ग्रहणात् समानसंज्ञाप्रतिज्ञा युक्ता । यतः- प्रथमं मातृकापाठं पाठयता(पठतां) बालानामपि "आईडा बि भाईडा, वडइ भाई कानउ' इत्यादि उच्चारणकालात् अग्रे उपरि अधश्च कानकादिरेखाविशेषाणां लेखनात्, ज्योति:शास्त्रेऽपि नामादिमाक्षरोच्चारे हुस्वदीर्घयोरेकराशिगणनाच्च । व्याकरणेनाऽपि मातृकाक्षराणामेव निर्णयकरणात् 'व्याक्रियन्ते स्वरव्यञ्जनानि स्वरव्यञ्जनसंयोगाऽसंयोगाभ्यां आकारविशेषी क्रियन्ते अनेनेति व्याकरणम्' इति व्युत्पत्तेः । इति सारस्वत-व्याकरणे 'दश समाना' इति संज्ञा सिद्धा ।
'उभये स्वराः' [संज्ञाप्र० ४.] इत्यास्ययमर्थः- उभौ अवयवौ हुस्वदी? कार्यकाले येषां ते उभये, उभशब्दादपि सर्वादित्वाज्जसीत्वम् । १. बालकानामवि इति कै.। २. कारणात् कै. ! ३. संयोगा नास्ति कै. ।
Page #9
--------------------------------------------------------------------------
________________
अनुसन्धान ४५
ननु हुस्वदीर्घप्लुतभेदानां स्वसंज्ञासद्भावेऽपि उभये इति पदस्य कस्य कस्यचिद् विशेषार्थस्य प्रतिपादकत्वात् उभये इति पदं प्रयुक्तवानाचार्यः । एवं नो चेत्, उभये इति पदस्य समुदायद्वयपरामर्शकत्वात् 'हस्वदीर्घप्लुतभेदाः सवर्णाः' [संज्ञाप्र० २.] इति सवर्णसंज्ञकाः । 'ए ऐ ओ औ सन्ध्यक्षराणि' [संज्ञाप्र० ३.] इति सन्ध्यक्षरसंज्ञाश्च उभये स्वरसंज्ञा भवन्तीति व्याख्या स्यात् । न चैवम् ।
सत्यम्, अकारादयः पञ्च चत्वार एकारादय 'उभये स्वराः' [ संज्ञाप्र० ४] इति व्याकुर्वत आचार्यस्याभिप्रायेण अयमर्थः । स चाऽयं इस्वदीर्धेति सूत्रस्य समानदशकत्वस्थापकत्वेन साक्षिकस्य इव 'अइउऋल समानाः' [ संत्राप्र० १.] 'ए ऐ ओ औ सन्ध्यक्षराणि' [संज्ञाप्र० ३.] इति सूत्रद्वयस्य विचाले स्थितत्वात् अकारादयः पञ्च, उभये हस्वदीर्घा:, चत्वार एकारादयः स्वरा उच्यन्ते इति अयमर्थः समर्थः ।
___ यद्वा, उभये इति पदं अत्र तन्त्रेण भण्यते । तन्त्रं नाम सकृदनुष्ठितस्य उभयार्थसाधकत्वम् । यथा उभयोः प्रधानयोर्मध्ये व्यवस्थापितः प्रदीप: सकृत्प्रयत्नकृतः उभयोपकारकः स्यात्, तथा उभये इति पदमपि सकृदुच्चरितं हुस्वदीर्घति समुदायद्वयस्य अकारादिपञ्चक एकारादिचतुष्केति समुदायस्य च उपकारकम् ।
___अथवा, उभये इति पदं आवृत्त्या आवर्तनीयम् । आवृत्तिर्नाम पुनः पाठः एकशेषे वा । स च यथा उभये उभये स्वराः इति वारद्वयं उभये इत्यस्य पाठे पठनीये । एकशः पाठे उभये स्वरा, इत्ययम्, पुनः पाठे उभये च उभये च उभये सरूपाणामेकशेष इत्येकशेषेऽपि उभये स्वराः इत्येकशेषः । एवं तन्त्रेण पुनः पाठेन एकशेषेण च उभये स्वराः इतीदृशं सूत्रं सूत्रयति स्म सरस्वती, तस्य अयमभिप्रायार्थः ।
प्रथमेन उभये इति पदेन चतुर्णा हुस्वदीर्घप्लुतभेदानां स्वरसंज्ञासद्भावेपि सन्ध्यादिकार्यानुपयोगित्वात् प्लुतभेदान् परित्यज्य हुस्वदीर्घ इति समुदायद्वयमग्रहीत् ।
द्वितीयेन उभये इति पदेन 'अइउऋतृसमानाः' [संज्ञाप्र० १.] इति सूत्रोक्ता अकारादयः पञ्च, ए ऐ ओ औ सन्ध्यक्षराणि [संज्ञाप्र० ३.] इति
Page #10
--------------------------------------------------------------------------
________________
सप्टेम्बर २००८
३९
सूत्रोक्ताश्चत्वार एकारादय इति समुदायद्वयं अग्रहीत् । ततोऽयमर्थः-अकारादयः पञ्च, उभये हस्वदीर्घाः, चत्वार एकारादयः उभये स्वरा उच्यन्ते इति । स्वयं राजन्ते शोभन्ते एकाकिनोऽपि अर्थं प्रतिपादयन्त इति स्वराः । उ प्रत्ययः पृषोदरादित्वात् स्वयं शब्दस्य स्वभावः । तथा च स्वरलक्षणं प्रोक्तं प्राग्भिः
अ विष्णुः स्मृतिवाक्ये आ इ गताविति मूर्तिभिः ।
लिङ्गनिपातधातूनां विराजन्ते स्वयं स्वराः ॥ [ ] इति । तच्चैते अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ ।
ननु इह लवर्णस्य स्वरसंज्ञायां किं प्रयोजनम् ? लकारः 'कृपू सामर्थ्य' इत्यस्मिन् धातो एव प्रयुज्यते । कृपेरो लः [ भ्वादि. आत्मने. २०] कृपेर्धातोः रेफस्य लकारादेशो भवति । र इति रश्रुतिसामान्यमुपादीयते। तेन यः केवलो रेफो यश्च ऋकारस्थः तयोरपि ग्रहणम् । ल इत्यपि सामान्यमेव उपादीयते । ततोऽयं केवलस्य रेफस्य स्थाने लकारादेशो विधीयते । इत्यनेन ऋकारस्यापि एकदेशविकारद्वारेण लकारकरणादेव प्रयोगो दृश्यते, न च तत्र स्वरसंज्ञाया: किमपि प्रयोजनं विद्यते । दीर्घस्य लुकारस्य तु सर्वथा प्रयोग एव नास्तीति ।
___ मैवम्, यदशक्ति यदसाधु तदनुकरणस्यापि साधुत्वमिष्यते । यथा'अहो ऋतक' इति प्रयोक्तव्ये शक्तिवैकल्यात् कश्चित् 'अहो लतक' इति प्रयुक्तवान् । तदा तत्समीपवर्ती किमयं आह इति अपरेण केनाऽपि पृष्टः सन् तमनुकुर्वन् 'अहो लतक' इत्याह - इति कथयति ।
अथ च लकारस्य स्वरसंज्ञया 'ओत् [ पाणिनि. १.१.१५ ] इति प्रक्रियासूत्रेण, 'औ निपातः' [ प्रकृतिभाव० ३.] इति सारस्वतसूत्रेण वा प्रकृत्या भवनात् क्लृप्त इत्यत्र अनचि च [पाणिनि. ८.४.४७ ] इति प्रक्रियासूत्रेण, हसेऽर्हहसः [स्वरसंधिः २] इति सारस्वतसूत्रेण वा लस्वरात् परस्य पकारस्य द्वित्वभावनात् । 'क्ल३प्तशिख' इत्यत्र दूराद् हूते चेति गुरोरनृतोऽनन्तस्याप्यैकैकस्य प्राचाम् [प्राणिनि. ८.२.८६ ] इति पाणिनीयसूत्रेण स्वराश्रितस्य प्लुतस्य प्रतिपादनाच्च लकारस्य स्वरसंज्ञायां प्रयोजनं विद्यते एव । शर्ववर्मणस्तु मते अकारादीनामिव लवर्णस्यापि स्वरसंज्ञया मुख्यमेवं प्रयोजनं विद्यते । यथा
Page #11
--------------------------------------------------------------------------
________________
४०
.
अनुसन्धान ४५
अमू लकारं पश्यतः, अमी लकारं पश्यन्तीति उभयत्राऽत्र अदसोमात् [ पाणिनि. १.१.१२ ] इति प्रक्रियासूत्रेण, नामी [ सा. प्रकृतिभाव. १] इति सारस्वतसूत्रेण वा प्रकृत्या भवनात् लकारस्य स्वरसंज्ञाप्रयोजनसद्भावः सिद्धः ।
___ लवर्णो न दीर्घोऽस्ति' इति यद् रामचन्द्रो अवोचत्, तदपि तदिच्छया तस्यैव ‘स्वत: प्रमाणं न परतः' इति ।
तथा च कालापकव्याकरणसूत्रं, तत्र, चतुर्दशादौ स्वराः [] तथा च एतट्टीका- तत्र तस्मिन् वर्णसमाम्नायविषये आदौ ये चतुर्दशवर्णास्ते स्वरसंज्ञा भवन्ति । स्वर १४ - अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । यथा अनुकरणे हुस्वलकारोऽस्ति तथा दीर्घोऽप्यस्तीति मतमिति ।
तथा च हैमव्याकरणसूत्रम्- 'औदन्ताः स्वराः' [ सिद्धहैम. १.१.४ ] वृत्तिश्चास्य- 'औकारावसाना वर्णाः स्वरसंज्ञा भवन्ति । तकार उच्चारणार्थः । अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । औदन्ता इति बहुवचनं वर्णेष्वपि पठितानां दीर्घपाठोपलक्षितानां प्लुतानां संग्रहार्थं, तेन तेषामपि स्वरसंज्ञेति ।'
तथा च काव्यकल्पलतासूत्रम् - विकृति स्त्रोतस्विन्यः चतुर्दश तुरे [ ] इति ।
तथा च हैमानेकार्थसूत्रम् - स्वरः शब्देऽपि षड्जादौ [अनेकार्थ कां. २ श्लो. ४७७] इति । 'अच्' इति अकारादीनां चतुर्दशानां वर्णानां पाणिनीयासंज्ञा । तत्र यथा - 'एकस्वरं चित्रमुदाहरन्ति' [ ] इति हैमानेकार्थटीका ।
तथा च विश्वप्रकाशकार:स्वरोऽकारादिमात्रासु मध्यमादिषु च ध्वनौ । उदात्तादिष्वपि प्रोक्तः, [विश्वप्र० रान्तवर्म ९] इति ।
हलायुधोऽपि१. 'व्याकरण' नास्ति कै. । २. काव्यकल्पलता.....रत्नपुरुषत्वे य स्वप्ना: जीवाजीवोपकरणगुणिनाग्रगारं रज्जुसूत्रं
पूर्वमिहाकुले करिपिण्डप्रकृति इति पाठो विद्यते कै. प्रतौ ।
Page #12
--------------------------------------------------------------------------
________________
सप्टेम्बर २००८
'अकारादावुदात्तादौ षड्जादौ निस्यने स्वरः ।
[
तथा वर्णनिर्घण्टौ चामुण्डोऽपि
अकारादीनां मातृकानुक्रमेण नामानि न्यबध्नात् । तद्यथाअकारोऽथ निगद्यते
आ
श्रीकण्ठः केशवस्त्वाद्यौ ह्रस्वो ब्राह्मणकः शिवः । आयुर्वेदः कलाढ्यश्च मृतेश प्रथमोऽपि च । एकमातृकवाणीशी सारस्वत - ललाटौ । मृत्युञ्जयः स्वराद्यश्च मातृकाद्यो लघुस्तथा ।
आकारोऽनन्तक्षीराब्धी गुरुर्नारायणो मुखम् । वृत्ताकारो दीर्घ, आपश्चतुर्मुखप्रकाशकौ । मुखवृत्तामृते वक्रो द्वितीयस्वरमोदकौ ।
इति । अपि च-
व्यञ्जनानि त्रयस्त्रिंशत् स्वराश्चैव चतुर्दश ।
४१
] इति ।
[ ] इति ।
इत्याद्यनेकशास्त्रानुसारेण चतुर्दशस्वरा: सारस्वतव्याकरणेऽप्यवश्यं 'उभये स्वरा:' [ सा. संज्ञाप्रकरण ४] इति सूत्रस्य पूर्वोक्तरीत्या व्याख्यानात् अवबोधव्यानि विद्वद्वृन्दारकैः ।
एकविंशतिरपि स्वराः यत् पाणिनीयशिक्षा
[ ]
१. अकारादिषु वर्णेषु पड्जादिषु समेषु उदात्तादिषु विज्ञेयः । प्रक्रियां स्वरे स्वर: इति । धञ्जयोऽपि इति पाठो विद्यते कै. प्रतौ ।
१. बोधव्या कै.
Page #13
--------------------------------------------------------------------------
________________
४२
अनुसन्धान ४५
'स्वरा विशतिरेकश्च' [ पाणिनीयशिक्षा प. ४]
इति । तच्चैवम् - अ१, इ२, उ३ एते त्रय: इस्वदीर्घप्लुतभेदात् नव ९, ऋवर्णः प्लुतहीनो द्विविध: २, लकारो दीर्घहीनो द्विविधः २, सन्ध्यक्षराणि १ दीर्घप्लुतभेदात् ८, एवं एकविंशतिस्वराः सन्ति । परं व्याकरणे सन्ध्यादिकार्योपयोगित्वेन चतुर्दशानामेव उपयोगात् चतुर्दशैव स्वराः ।
ये च सारस्वतटीकाकाराः वासुदेवादयः पञ्च समानाः नवस्वराः अष्टौ नामिनः इति प्रतिपादयन्ति, तद् असत्, पूर्वकविप्रणीतव्याकरणाद्यनेकग्रन्थैः सह विरोधात्, सरस्वतीकृतसमानादिसंज्ञानामपि च सर्वपूर्वकविप्रणीतानेकग्रन्थसंज्ञानुयायित्वात् । छ । इति श्रीश्रीवल्लभोपाध्यायविरचितं चतुर्दशस्वरस्थापनवादस्थलं समाप्तम् ।
श्रीजिनराजसूरीन्द्रे धर्मराज्यं विधातरि । अस्मिन् खरतरे गच्छे धर्मराज्यं विधातरि ॥१॥ जगद्विख्यातसत्कीर्तिर्ज्ञानविमलपाठकः । योऽभवत्तस्य पादाब्नभ्रमरायितमानसः ।।२।। श्रीवल्लभ उपाध्यायः समाख्यातीति सूनृतम् । चतुर्दशस्वरा एते सर्वशास्त्रानुसारतः ॥३॥ त्रिभिर्विशेषकम्
इति श्रीश्रीवल्लभोपाध्यायविरचित-सारस्वतमतानुगत
सर्वशास्त्रसम्मत-चतुर्दशस्वरस्थापनवादस्थलप्रशस्तिः समाप्ता । तत्समाप्तौ च समाप्तं चतुर्दश
स्वरस्थापनवादस्थलम् । तच्च वाच्यमानं चिरं नन्दतात् ।
१. अष्टौ इत्यधिकपाठो कै. । २. समानऽमपि इति जयपुर प्रतौ.
३. ज. प्रतौ सुनतं
Page #14
--------------------------------------------------------------------------
________________ सप्टेम्बर 2008 43 प्रति परिचय 1. ज, उपाध्याय जयचन्द्रगणि संग्रह, रा.प्रा.वि.प्र. बीकानेर शाखा कार्यालय 2. खरतरगच्छ ज्ञान भण्डार, जयपुर, क्रमांक छ. 106 पत्र 7, ले. १९वीं शती 3. कै. श्री कैलाशसागरसूरि ज्ञान मन्दिर, कोबा, अहमदाबाद नं. 16177 पत्र 5, ले. १८वीं शती लेखन प्रशस्ति तत्त्वविचक्षणैर्वाच्यमानं चिरं नन्दतात् / हीरस्तु / श्री:छः // श्री / श्रीजिनराजसूरिभिः / तत्सिष्यश्रीमानविजयजी तत्सिष्यश्रीकमलहर्षजी तस्य छात्रवद् विद्याविलासेन लिखतमस्ति ॥श्री।। Clo. प्राकृत भारती 13/A, मेन मालवीयनगर, जयपुर 302017