SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००८ तच्चैवम् हुस्वदीर्घः अ आ १, दीर्घहस्व: आ अ २, हुस्वहस्वः अ अ ३, दीर्घदीर्घः आ आ ४. इति चतुर्भङ्गी । तदुक्तम् क्रमोत्क्रमस्वरूपेण सवर्णत्वं निवेदितम् । इष्टादपि सवर्णत्वं भणितं ऋलकारयोः ॥१॥ [ ] इति । तथा च हैमव्याकरणम्-लृदन्ताः समानाः [सिद्धहेम. १.१.७] इति । तथा च नरपतिः मातृकायां पुरा प्रोक्ता: स्वराः षोडशसंख्यया । तेषां द्वावन्तिमौ त्याज्यौ चत्वारश्च नपुंसकाः ॥ शेषा दश स्वरास्तेषु स्यादेकैकं द्विकं द्विकम् । इति । एवं अकारादीनां प्रत्येकं युग्मयुग्मत्वेन सवर्णत्वात्-समानसंज्ञा सिद्धा । प्लुतस्य च सवर्णसंज्ञासद्भावेपि सन्ध्यादिकार्येषु सन्धिकार्यानहत्वात् न समानसंज्ञेति । ननु लोकेऽपि अ-इ-उ-ऋ-ल इति हूस्वपञ्चाक्षराणां पञ्चदीर्घाक्षरैः सह रेखाद्याकृतिविशेषे सत्यपि 'एकदेशविकृतं अनन्यवद्भवति' इति न्यायादभेदात् 'वर्णग्रहणे जातिग्रहणम्' इति न्यायेनाऽपि च एकवर्णग्रहणे तज्जातीयस्य अनेकस्यापि ग्रहणात् समानसंज्ञाप्रतिज्ञा युक्ता । यतः- प्रथमं मातृकापाठं पाठयता(पठतां) बालानामपि "आईडा बि भाईडा, वडइ भाई कानउ' इत्यादि उच्चारणकालात् अग्रे उपरि अधश्च कानकादिरेखाविशेषाणां लेखनात्, ज्योति:शास्त्रेऽपि नामादिमाक्षरोच्चारे हुस्वदीर्घयोरेकराशिगणनाच्च । व्याकरणेनाऽपि मातृकाक्षराणामेव निर्णयकरणात् 'व्याक्रियन्ते स्वरव्यञ्जनानि स्वरव्यञ्जनसंयोगाऽसंयोगाभ्यां आकारविशेषी क्रियन्ते अनेनेति व्याकरणम्' इति व्युत्पत्तेः । इति सारस्वत-व्याकरणे 'दश समाना' इति संज्ञा सिद्धा । 'उभये स्वराः' [संज्ञाप्र० ४.] इत्यास्ययमर्थः- उभौ अवयवौ हुस्वदी? कार्यकाले येषां ते उभये, उभशब्दादपि सर्वादित्वाज्जसीत्वम् । १. बालकानामवि इति कै.। २. कारणात् कै. ! ३. संयोगा नास्ति कै. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229386
Book TitleChaturdash Swar Sthapanvad Sthalam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherZZ_Anusandhan
Publication Year
Total Pages14
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size368 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy