SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ४५ ननु हुस्वदीर्घप्लुतभेदानां स्वसंज्ञासद्भावेऽपि उभये इति पदस्य कस्य कस्यचिद् विशेषार्थस्य प्रतिपादकत्वात् उभये इति पदं प्रयुक्तवानाचार्यः । एवं नो चेत्, उभये इति पदस्य समुदायद्वयपरामर्शकत्वात् 'हस्वदीर्घप्लुतभेदाः सवर्णाः' [संज्ञाप्र० २.] इति सवर्णसंज्ञकाः । 'ए ऐ ओ औ सन्ध्यक्षराणि' [संज्ञाप्र० ३.] इति सन्ध्यक्षरसंज्ञाश्च उभये स्वरसंज्ञा भवन्तीति व्याख्या स्यात् । न चैवम् । सत्यम्, अकारादयः पञ्च चत्वार एकारादय 'उभये स्वराः' [ संज्ञाप्र० ४] इति व्याकुर्वत आचार्यस्याभिप्रायेण अयमर्थः । स चाऽयं इस्वदीर्धेति सूत्रस्य समानदशकत्वस्थापकत्वेन साक्षिकस्य इव 'अइउऋल समानाः' [ संत्राप्र० १.] 'ए ऐ ओ औ सन्ध्यक्षराणि' [संज्ञाप्र० ३.] इति सूत्रद्वयस्य विचाले स्थितत्वात् अकारादयः पञ्च, उभये हस्वदीर्घा:, चत्वार एकारादयः स्वरा उच्यन्ते इति अयमर्थः समर्थः । ___ यद्वा, उभये इति पदं अत्र तन्त्रेण भण्यते । तन्त्रं नाम सकृदनुष्ठितस्य उभयार्थसाधकत्वम् । यथा उभयोः प्रधानयोर्मध्ये व्यवस्थापितः प्रदीप: सकृत्प्रयत्नकृतः उभयोपकारकः स्यात्, तथा उभये इति पदमपि सकृदुच्चरितं हुस्वदीर्घति समुदायद्वयस्य अकारादिपञ्चक एकारादिचतुष्केति समुदायस्य च उपकारकम् । ___अथवा, उभये इति पदं आवृत्त्या आवर्तनीयम् । आवृत्तिर्नाम पुनः पाठः एकशेषे वा । स च यथा उभये उभये स्वराः इति वारद्वयं उभये इत्यस्य पाठे पठनीये । एकशः पाठे उभये स्वरा, इत्ययम्, पुनः पाठे उभये च उभये च उभये सरूपाणामेकशेष इत्येकशेषेऽपि उभये स्वराः इत्येकशेषः । एवं तन्त्रेण पुनः पाठेन एकशेषेण च उभये स्वराः इतीदृशं सूत्रं सूत्रयति स्म सरस्वती, तस्य अयमभिप्रायार्थः । प्रथमेन उभये इति पदेन चतुर्णा हुस्वदीर्घप्लुतभेदानां स्वरसंज्ञासद्भावेपि सन्ध्यादिकार्यानुपयोगित्वात् प्लुतभेदान् परित्यज्य हुस्वदीर्घ इति समुदायद्वयमग्रहीत् । द्वितीयेन उभये इति पदेन 'अइउऋतृसमानाः' [संज्ञाप्र० १.] इति सूत्रोक्ता अकारादयः पञ्च, ए ऐ ओ औ सन्ध्यक्षराणि [संज्ञाप्र० ३.] इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229386
Book TitleChaturdash Swar Sthapanvad Sthalam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherZZ_Anusandhan
Publication Year
Total Pages14
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size368 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy