SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २००८ ३९ सूत्रोक्ताश्चत्वार एकारादय इति समुदायद्वयं अग्रहीत् । ततोऽयमर्थः-अकारादयः पञ्च, उभये हस्वदीर्घाः, चत्वार एकारादयः उभये स्वरा उच्यन्ते इति । स्वयं राजन्ते शोभन्ते एकाकिनोऽपि अर्थं प्रतिपादयन्त इति स्वराः । उ प्रत्ययः पृषोदरादित्वात् स्वयं शब्दस्य स्वभावः । तथा च स्वरलक्षणं प्रोक्तं प्राग्भिः अ विष्णुः स्मृतिवाक्ये आ इ गताविति मूर्तिभिः । लिङ्गनिपातधातूनां विराजन्ते स्वयं स्वराः ॥ [ ] इति । तच्चैते अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । ननु इह लवर्णस्य स्वरसंज्ञायां किं प्रयोजनम् ? लकारः 'कृपू सामर्थ्य' इत्यस्मिन् धातो एव प्रयुज्यते । कृपेरो लः [ भ्वादि. आत्मने. २०] कृपेर्धातोः रेफस्य लकारादेशो भवति । र इति रश्रुतिसामान्यमुपादीयते। तेन यः केवलो रेफो यश्च ऋकारस्थः तयोरपि ग्रहणम् । ल इत्यपि सामान्यमेव उपादीयते । ततोऽयं केवलस्य रेफस्य स्थाने लकारादेशो विधीयते । इत्यनेन ऋकारस्यापि एकदेशविकारद्वारेण लकारकरणादेव प्रयोगो दृश्यते, न च तत्र स्वरसंज्ञाया: किमपि प्रयोजनं विद्यते । दीर्घस्य लुकारस्य तु सर्वथा प्रयोग एव नास्तीति । ___ मैवम्, यदशक्ति यदसाधु तदनुकरणस्यापि साधुत्वमिष्यते । यथा'अहो ऋतक' इति प्रयोक्तव्ये शक्तिवैकल्यात् कश्चित् 'अहो लतक' इति प्रयुक्तवान् । तदा तत्समीपवर्ती किमयं आह इति अपरेण केनाऽपि पृष्टः सन् तमनुकुर्वन् 'अहो लतक' इत्याह - इति कथयति । अथ च लकारस्य स्वरसंज्ञया 'ओत् [ पाणिनि. १.१.१५ ] इति प्रक्रियासूत्रेण, 'औ निपातः' [ प्रकृतिभाव० ३.] इति सारस्वतसूत्रेण वा प्रकृत्या भवनात् क्लृप्त इत्यत्र अनचि च [पाणिनि. ८.४.४७ ] इति प्रक्रियासूत्रेण, हसेऽर्हहसः [स्वरसंधिः २] इति सारस्वतसूत्रेण वा लस्वरात् परस्य पकारस्य द्वित्वभावनात् । 'क्ल३प्तशिख' इत्यत्र दूराद् हूते चेति गुरोरनृतोऽनन्तस्याप्यैकैकस्य प्राचाम् [प्राणिनि. ८.२.८६ ] इति पाणिनीयसूत्रेण स्वराश्रितस्य प्लुतस्य प्रतिपादनाच्च लकारस्य स्वरसंज्ञायां प्रयोजनं विद्यते एव । शर्ववर्मणस्तु मते अकारादीनामिव लवर्णस्यापि स्वरसंज्ञया मुख्यमेवं प्रयोजनं विद्यते । यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229386
Book TitleChaturdash Swar Sthapanvad Sthalam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherZZ_Anusandhan
Publication Year
Total Pages14
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size368 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy