________________
४०
.
अनुसन्धान ४५
अमू लकारं पश्यतः, अमी लकारं पश्यन्तीति उभयत्राऽत्र अदसोमात् [ पाणिनि. १.१.१२ ] इति प्रक्रियासूत्रेण, नामी [ सा. प्रकृतिभाव. १] इति सारस्वतसूत्रेण वा प्रकृत्या भवनात् लकारस्य स्वरसंज्ञाप्रयोजनसद्भावः सिद्धः ।
___ लवर्णो न दीर्घोऽस्ति' इति यद् रामचन्द्रो अवोचत्, तदपि तदिच्छया तस्यैव ‘स्वत: प्रमाणं न परतः' इति ।
तथा च कालापकव्याकरणसूत्रं, तत्र, चतुर्दशादौ स्वराः [] तथा च एतट्टीका- तत्र तस्मिन् वर्णसमाम्नायविषये आदौ ये चतुर्दशवर्णास्ते स्वरसंज्ञा भवन्ति । स्वर १४ - अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । यथा अनुकरणे हुस्वलकारोऽस्ति तथा दीर्घोऽप्यस्तीति मतमिति ।
तथा च हैमव्याकरणसूत्रम्- 'औदन्ताः स्वराः' [ सिद्धहैम. १.१.४ ] वृत्तिश्चास्य- 'औकारावसाना वर्णाः स्वरसंज्ञा भवन्ति । तकार उच्चारणार्थः । अ आ इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ । औदन्ता इति बहुवचनं वर्णेष्वपि पठितानां दीर्घपाठोपलक्षितानां प्लुतानां संग्रहार्थं, तेन तेषामपि स्वरसंज्ञेति ।'
तथा च काव्यकल्पलतासूत्रम् - विकृति स्त्रोतस्विन्यः चतुर्दश तुरे [ ] इति ।
तथा च हैमानेकार्थसूत्रम् - स्वरः शब्देऽपि षड्जादौ [अनेकार्थ कां. २ श्लो. ४७७] इति । 'अच्' इति अकारादीनां चतुर्दशानां वर्णानां पाणिनीयासंज्ञा । तत्र यथा - 'एकस्वरं चित्रमुदाहरन्ति' [ ] इति हैमानेकार्थटीका ।
तथा च विश्वप्रकाशकार:स्वरोऽकारादिमात्रासु मध्यमादिषु च ध्वनौ । उदात्तादिष्वपि प्रोक्तः, [विश्वप्र० रान्तवर्म ९] इति ।
हलायुधोऽपि१. 'व्याकरण' नास्ति कै. । २. काव्यकल्पलता.....रत्नपुरुषत्वे य स्वप्ना: जीवाजीवोपकरणगुणिनाग्रगारं रज्जुसूत्रं
पूर्वमिहाकुले करिपिण्डप्रकृति इति पाठो विद्यते कै. प्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org