SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ३६ अनुसन्धान ४५ सत्यम्, उदात्तानुदातस्वरितभेदात् त्रयस्तावद् अकाराः । पुनस्ते सानुनासिक - निरनुनासिकभेदात् द्विविधा - केचिदकाराः उदात्तानुदात्तस्वरिताः सानुनासिकाः केचिदकाराः उदात्तानुदात्तस्वरिता: निरनुनासिकाः । इति अकार: षोढा भिद्यते । एवं दीर्घप्लुतयोरपि प्रत्येकं भेदकथनात् अष्टादशधा भिद्यते अवर्णः । एवम् इवर्णादयोऽपि । इत्थं समानपरिमाणत्वयुक्तत्वात् समानसंज्ञा अन्वर्था अकारादीनामित्यर्थः । ननु एवं सति अकारादीनां पञ्चानामेव समानसंज्ञासद्भावे गङ्गानामित्यादौ दीर्घाकारादीनां समानकार्यं न स्यात् इत्याशङ्कां निराकर्तुं अनुक्तामपि समानातिसंख्यां पुराणव्याकरणानुसारिणीं प्रमाणयितुं ह्रस्वदीर्घप्लुतैः स्थानप्रयत्नादिभिश्च सवर्णसंज्ञां ज्ञापयितुं च ' ह्रस्वदीर्घप्लुतभेदाः सवर्णाः' [संज्ञाप्र० २.] इति परिभाषासूत्रं व्यरचयद् आचार्य:, अनियमे नियमकारिणी परिभाषेति परिभाषालक्षणात् पूर्वसूत्रेण समानसंज्ञाया अनिश्चयीकरणात् 'ह्रस्वदीर्घप्लुतभेदाः सवर्णा.' [संज्ञाप्र० २.] इति परिभाषासूत्रेण ह्रस्वदीर्घयोः सावर्ण्यात् सरस्वतीकृते सूत्रे ह्रस्वोक्त्या दीर्घसंग्रह इतिदपि दीर्घग्रहणात् 'दश समाना:' [ कातन्त्र १|१|३] इति समानसंज्ञां निरणयत् । अपरञ्च स्थानप्रयत्त्राभ्यामपि सवर्णाः [ 1 इति सवर्णसंज्ञां प्रज्ञापयत् श्रीमदन भूतिस्वरूपाचार्यः । ननु प्लुतभेदयोस्तु समानसंज्ञां प्लुतभेदयोस्तु सवर्णसंज्ञामेव इति हूस्वदीर्घप्लुतभेदा इत्यत्र भेदशब्दग्रहणात् स्थानप्रयत्नयोर्ग्रहणात् स्थानप्रयत्नाभ्यां अकारादीनां व्यञ्जनानां च सवर्णसंज्ञादर्शनात्, तथा च पाणिनिः - 'तुल्यास्यप्रयत्नं सवर्णम्' [पाणिनि १.१.९] इति तथा च कालापकव्याकरणम् - 'दश समाना:' [कातन्त्र ० १ ११३] तस्मिन् वर्णसमाम्नायविषये आदौ ये दशवर्णास्ते समानसंज्ञा भवति । 'तेषां द्वौ द्वावन्योन्यस्य सवर्णी' [कातन्त्र. १११४] । तेषामेव दशानां समानानां मध्ये यौ द्वौ द्वौ वर्णौ तौ अन्योन्यस्य परस्परं सवर्णसंज्ञौ भवतः । सवर्णा ९ अ आ इ ई उ ऊ ऋ ऋ लृ लृ तेषां ग्रहणं व्यक्त्यर्थं तेन ह्रस्वयोर्द्वयोः दीर्घयोश्च द्वयोः सवर्णसंज्ञा सिद्धेतीति । 1 २. अन्योन्यसंज्ञौ इति कै. 1 १. समानसंज्ञा प्लुतभेदयोस्तु नास्ति प्रतौ । ३. व्यक्तिरर्थः प्रयोजनमस्य करणस्य तत् कै. 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229386
Book TitleChaturdash Swar Sthapanvad Sthalam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherZZ_Anusandhan
Publication Year
Total Pages14
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size368 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy