________________
सप्टेम्बर २००८
१. कोऽयं स्वरो नाम ? किं शब्दपर्यायः ?
२. उत नासिकासमुद्भूतपर्यायः ?
३. अथवा निषादादीनामवबोधकः ?
४. किमुत उदात्तादीनां ज्ञापकः ?
५. अहोस्वित्' विवक्षितकार्यावबोधकाऽकारादिसंज्ञाप्रतिपादक: ?
इति विकल्पपञ्चतयी विषयपञ्चतयी च जनमनांसि क्षोभयतीति प्रतिभाति ।
१. यदि आद्यस्तर्हि विविधजातीनां सुरनरतिर्यग्विहगादीनां विविधभाषाभाषकत्वात् सुस्वरदुः स्वरोच्चैर्नीचैरादिभेदभिन्नोऽप्यनेकधा शब्दपर्यायः स्वरोऽवधार्यः । इत्याद्यः ॥१॥
२. अथ द्वितीयस्तर्हि सोऽपि त्रीन्द्रिय- पञ्चेन्द्रियजीवानामेव तत्सद्भावाद् द्विविधोऽपि । पुनः शोभनाऽशोभनभेदाभ्यां द्विविधो मनुष्याणामेव । चन्द्र १सूर्यो २ - च्च ३ - नीच ४- तिर्यगादि ५- लक्षणैरनेकधा स्वरोदयशास्त्रात् नासिकास्वरोऽवगन्तव्यः । इति द्वितीयः ||२||
३. अथ चेत् तृतीयस्तर्हि सोऽपि निषाद १ - ऋषभ २ - गान्धार ३षड्ज ४- मध्यम ५- धैवत ६ - पञ्चम ७ इति लक्षणैः तन्त्रीकण्ठोद्भवैः सप्तविधः । यदमर:
निषादर्षभगान्धार- षड्जमध्यमधैवताः ।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः । [ १.७.१]
इति सप्तविधोऽवसेयः । इति तृतीयः ।
४. अथ चतुर्थश्चेत्तर्हि उदात्तानुदात्तस्वरितानां त्रैविध्यात् त्रिविधः ।
यदमरः
उदात्ताद्यास्त्रयः स्वराः [ १.६.४ ]
इति, अकारादीनामेव एते । इति चतुर्थः ॥४॥
३३
१. आहोस्वित् कै.
३. पाठो नास्ति जे प्रतौ ।
Jain Education International
२. स्वरोऽवधार्यः नास्ति जे प्रतौ ।
४. एव नास्ति कै.
For Private & Personal Use Only
www.jainelibrary.org