Book Title: Yogshastra Part 05
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 15
________________ तीयः प्रकाशः । सिद्धः फलाव्यभिचारेण प्रतिष्ठित:, अथवा सिद्धः सकलनयव्यापकत्वेन त्रिकोटिपरिशद्धत्वेन च प्रख्यातस्तस्मिन्, भो इत्यतिशयिनामामन्त्रणम्. पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण, यतः इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्न मस्करोति, नमो जिणमए नमो जिनमताय, प्राक्तत्वाच्चतुयाः सप्तमी । अस्मिंश्च सति नन्दिः समृद्धिः । सदा सर्वकालम, संयमे चारित्रे भूयात् । उक्तं च-() पढमं नाणं तो दया'। किं विशिष्टे संयमे ?, देवनागसुपर्ण किवरगणैः सद्भूतभावेनार्चिते- देवा विमानिनः, नागा धरणादयः, सुपर्णा गरुडाः, किन्नरा व्यन्तरविशेषाः उपलक्षणं शेषाणां, देवमित्यनुस्वारः छन्दःपूरणे, तथा च संयमवन्तोऽय॑न्त एव देवादिभिः । यत्र जिनमते, किं यत्र ?,लोकनं लोकी ज्ञानम्, प्रतिष्ठित: तहशीभूतः, तथा जगदिदं ज्ञेयतया प्रतिष्ठितमिति योग: ; केचिन्मनुष्यलोकमेव जगन्मन्यन्ते, अत आह-त्रैलोक्यमासुरमाधाराधेयरूपम्। अयमित्यम्भूतो धर्मः श्रुतधर्मो वर्धतां वृद्धिमुपयातु, शाखतमिति क्रियाविशेषणं शाखतम प्रच्युत्या वर्धतामिति ; विजयतः परवादिविजयेन, धर्मोत्तरं चारित्रधर्मोत्तरं वर्धताम्, पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्या इति प्रदर्शनार्थम् । तथाच तीर्थकरनामकर्महेतुन प्रतिपादयतोतम'अपुव्व नाणगहणे' इति । प्रणिधानमेतन्मोक्षबीजकल्यं परमार्थतोऽनाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यथं कायो (१) प्रथमं ज्ञानं ततो दया ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 162