________________
तीयः प्रकाशः ।
सिद्धः फलाव्यभिचारेण प्रतिष्ठित:, अथवा सिद्धः सकलनयव्यापकत्वेन त्रिकोटिपरिशद्धत्वेन च प्रख्यातस्तस्मिन्, भो इत्यतिशयिनामामन्त्रणम्. पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण, यतः इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्न मस्करोति, नमो जिणमए नमो जिनमताय, प्राक्तत्वाच्चतुयाः सप्तमी । अस्मिंश्च सति नन्दिः समृद्धिः । सदा सर्वकालम, संयमे चारित्रे भूयात् । उक्तं च-() पढमं नाणं तो दया'। किं विशिष्टे संयमे ?, देवनागसुपर्ण किवरगणैः सद्भूतभावेनार्चिते- देवा विमानिनः, नागा धरणादयः, सुपर्णा गरुडाः, किन्नरा व्यन्तरविशेषाः उपलक्षणं शेषाणां, देवमित्यनुस्वारः छन्दःपूरणे, तथा च संयमवन्तोऽय॑न्त एव देवादिभिः । यत्र जिनमते, किं यत्र ?,लोकनं लोकी ज्ञानम्, प्रतिष्ठित: तहशीभूतः, तथा जगदिदं ज्ञेयतया प्रतिष्ठितमिति योग: ; केचिन्मनुष्यलोकमेव जगन्मन्यन्ते, अत आह-त्रैलोक्यमासुरमाधाराधेयरूपम्। अयमित्यम्भूतो धर्मः श्रुतधर्मो वर्धतां वृद्धिमुपयातु, शाखतमिति क्रियाविशेषणं शाखतम प्रच्युत्या वर्धतामिति ; विजयतः परवादिविजयेन, धर्मोत्तरं चारित्रधर्मोत्तरं वर्धताम्, पुनर्वृद्ध्यभिधानं मोक्षार्थिना प्रत्यहं ज्ञानवृद्धिः कार्या इति प्रदर्शनार्थम् । तथाच तीर्थकरनामकर्महेतुन प्रतिपादयतोतम'अपुव्व नाणगहणे' इति । प्रणिधानमेतन्मोक्षबीजकल्यं परमार्थतोऽनाशंसारूपमेवेति प्रणिधानं कृत्वा श्रुतस्यैव वन्दनाद्यथं कायो
(१) प्रथमं ज्ञानं ततो दया ।