________________
६४४
योगशास्त्रे श्रुतमभिवन्ध तस्यैव गुणोपदर्शनहारेणाऽप्रमादगोचरतां प्रतिपादयवाह
जाईजरामरणसोगपणासणस्स कल्लाणपुक्खल विसालसुहावहस्म । को देवदाणवनरिंदगणचिअस्स
धम्मस्म सारमुवलभ करे पमायम् ? ॥ ३ ॥ कः सचेतन:, धर्मस्य श्रुतधर्मस्य, सारं सामर्थ्यम्, उपलभ्य विज्ञाय श्रुतधर्मोदितेऽनुष्ठाने प्रमादमनादरं कुर्यात् ?, न कश्चित् कुर्यादित्यर्थः । किंविशिष्टस्य श्रुतधर्मस्य?, जातिर्जन्म, जरा विश्रसा, मरणं प्राणनाश:, शोको मानसो दुःखविशेषः, तान् प्रणाशयति अपनयति, जातिजरामरणशोक प्रणाशन: तस्य, श्रुतधर्मोक्तानुष्ठानाद्धि जात्यादयः प्रणश्यन्त्येव, अनेनास्यानर्थप्रतिघातित्वमुक्तम् । कल्यमारोग्यमणति शब्दयति इति कल्याणम्, पुष्कलं सम्पूर्णम्, न च तदल्पं किन्तु विशालं विस्तीर्णमेवम्भूतं सुखमावहति प्रापयतीति कल्याणपुष्कलविगालसुखावहः तस्य, तथाच श्रुतधर्मोक्तानुष्ठानादुक्त लक्षणमपवर्गसुखमवाप्यत एव, अनिन चाऽस्य विशिष्टार्थप्रापकत्वमाह । देवानां दानवानां नरेन्द्राणां च गणैरर्चितस्य पूजितस्य, सुरगगा नरेन्द्रमहितस्य इति, अस्यैव निगमनं देवदानवेत्यादि । यतश्चैवमत:
सिद्धे भो ! पयो नमो जिणमए नंदी सया संयमे देवनागसुवमकिनरगणस्मन्भूअभावच्चिए । लोगो जत्थ पइडिओ जगमिणं तेलुकमच्चासुरं धम्मो वडढउ सासयं विजयो धम्मुत्तरं वड्ढउ ॥ ४ ॥