________________
टतीयः प्रकाशः।
इति वचनाद वचनस्यानादित्वात् ? । नैवम्, बीजाश्रवत्तदुपपत्तेः-बीजाद्धि अकुरो भवति अङ्घराच्च बौजमिति । एवं भगवतां पूर्वजन्मनि श्रुतधर्माभ्यासात्तीयकरत्वम्, तीर्थक्वतां च श्रुतधर्मादिकरत्वमदुष्टमेव । नचाऽयं नियमः श्रुतधर्मपूर्वकमेवाईत्त्वमिति, मरुदेव्यादीनां श्रुतधर्मपूर्वकत्वाभावेऽपि केवलज्ञानश्रवणादित्यलं प्रसङ्गेन। एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता । इदानीं श्रुतधर्मस्याह
समतिमिरपडलविद्धसणस्म सुरगणनरिंदमहिअस्म । . सीमाधरस्म वंदे पप्फोडिअमोहजालस्म ॥ २ ॥ ___तमोऽज्ञानम्, तदेव तिमिरम्,अथवा बनस्पृष्टनिधत्तं ज्ञानावरणीयं कर्म तमः ; निकाचितं तिमिरं, ततस्तमस्ति मिरस्य, तमस्तिमिरयोर्वा पटलं वृन्दम्. तद्विध्वंसयति विनाशयतीति नन्द्यादित्वादने तमस्तिमिरपटल विध्वंसनस्तस्य, अज्ञाननिरासेनेवाऽस्य प्रवृत्तेः । सुरगणेश्चतुर्विधाऽमरनिकायैर्नरेन्द्रश्चक्रवर्त्यादि. भिर्महितः पूजितस्तस्य । आगममहिमां हि कुर्वन्त्येव सुरासुरादयः । सौमां मादाम्, सोमायां वा धारयतीति सीमाधरस्तस्य, श्रुतधर्म इति विशेष्यम्, तत: कर्मणि द्वितीया, तस्याश्च “क्वचिद् हितीयादेः” ॥ ८ । ३ । १३४ ॥ इति प्राक्कतसूत्रात् षष्ठी, अतस्तं वन्दे, तस्य वा यन्माहात्मा तहन्दे इति मम्बन्धे षष्ठी; अथवा सस्य वन्दे वन्दनं करोमीति । प्रकर्षेण स्फोटितं विदारितम्, मोहजालं मिथ्यात्वादिरूपं येन स तथा तस्य । श्रुतधर्मे हि सति विवेकिनो मोहजालं मिथ्यात्वादिरूपं विलयमुपयात्येव ॥ इत्थं