________________
६४२
योगशास्त्रे
इति सर्वलोकसंग्रहः, तदनुसारेण सर्वतीर्थकरसाधारणो खतिः । अन्यथा अन्यकायोत्सर्गे अन्या स्तुतिरिति न सम्यगतिप्रसङ्गादिति सर्वतीर्थकराणां स्तुतिरुक्ता । इदानीं येन ते भगवन्तस्तदभिहिताश्व भावाः स्फुटमुपलभ्यन्ते तत्प्रदीपस्थानीयं सम्यक् श्रुतमर्हति कीर्तनम्, तत्त्राऽपि तत्प्रणेतॄन् भगवतः प्रथमं स्तौति—
पुक्खरवरदौवड्ढे धायइखंडे अ जम्बुद्दौवें अ ।
भर हेरवयविदेहे धम्मादूगरे नम॑सामि ॥ १ ॥ भरतं भरतक्षेत्रम्,ऐरवतमैरवत क्षेत्रम्, विदेहमिति भौमो भौमसेन इति न्यायाद महाविदेहक्षेत्रम्, एवं समाहारदन्द:, तेषु भरतैरवतविदेहेषु धर्मस्य श्रुतधर्मस्यादिकरान् सूत्रतः प्रथमकरणशोलान्, नमस्यामि स्तुवे । क यानि भरतैरवतमहाविदेह क्षेत्राणि ?, इत्याह-पुष्कराणि पद्मानि तैर्दरः पुष्करवरः स चासौ डोपच पुष्करवरद्दीपः तृतीयो द्वीपः, तस्यार्धं मानुषोत्तराचलादर्वाग्भागवर्ति, तत्र हे भरते. हे ऐरवते, हे महाविदेहे, तथा धातकोनां खण्डानि वनानि यस्मिन् म धातकीखण्डो दीपः तस्मिन्, हे भरते,
ऐरवते, हे महाविदेहे । जम्ब्वा उपलक्षितः तत्प्रधानो वा होपो जम्बूद्दीपः, अत्रैकं भरतमेकमैरवतमेकं च महाविदेहमित्येताः पञ्चदशकर्मभूमयः, शेषास्त्वकर्मभूमयः । यदाह – - "भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः” (तत्त्वा- ३|१६) महत्तरक्षेत्रप्राधान्याङ्गीकर करणात्यश्चानुपूर्व्या निर्देश: । धर्मादिकरत्वं यथा भगवतां भवति तथा अपौरुषेयवादनिराकरणावसरे प्राग्निर्णीतम् । नन्वेवमपि कथं धर्मादिकरत्वं भगवताम्, 'तप्पुव्वित्रा अरहया'
.