________________
तथा
तृतीयः प्रकाशः ।
६४१
चंदेसु निम्मलयरा आइचेसु अहिअं पयासयरा । सागरवरगम्भीरा सिद्धा सिद्धिं मम दिसन्तु ॥ ७ ॥
“पञ्चम्यास्तृतीया च” ॥ ८ । ३ । १३६ ॥ इति पञ्चम्यर्थे सप्तमी, अतश्चन्द्रेभ्योऽपि निर्मलतरा: सकलकर्ममलापगमात्, पाठान्तरं वा चन्देहिं निम्मलयरा, एवमादित्येभ्योऽप्यधिकं प्रकाशकराः, केवलोद्योतेन लोकालोकप्रकाशकत्वात् ।
उक्तं च
'चंदाइञ्चगहाणं पहा पयासेइ परिमिश्रं खित्तं । केवलिअनाणलम्भो लोलोअं पयासेइ ॥ १ ॥ सागरवरः स्वयम्भूरमणाख्यः समुद्रः, परोषहोपसर्गाद्यक्षोभ्य`त्वात् तस्मादपि गम्भीराः, सिद्धाः कर्मविगमात् कृतकृत्याः, सिद्धिं परमपदप्राप्तिम्, मम दिशन्तु प्रयच्छन्तु । एवं चतुर्विंशतिस्तवमुक्ता सर्वलोक एवाऽर्हचैत्यानां वन्दनाद्यर्थं कायोत्सर्गकरणायेदं पठति, पठन्ति वा । सव्वलोए अरिहंतचेद्रणं करेमि काउसग्गमित्यादि वोसिरामीति यावत् । व्याख्या पूर्ववत् । नवरम्, सर्वश्वासौ लोकश्च अवस्तिर्यगूर्ध्वमेदस्तस्मिंस्त्रेलोको इत्यर्थः, अधोलोके हि चमरादिभवनेषु, तिर्यग्लो के द्दीपाचलज्योतिष्कविमानादिषु, ऊर्ध्वलोके सौधर्मादिषु सन्त्येवार्ह चैत्यानि, ततश्च मौलचैत्यं समाधिकारणमिति मूलप्रतिमायाः प्राक् स्तुतिरुक्ता । इदानीं सर्वेऽर्हन्तस्तङ्गुणा
(१) चन्द्रादित्यग्रहाणां प्रभा प्रकाशयति परिमितं क्षेत्रम् ।
के लिकज्ञानलाभो लोकालोकं प्रकाशयति ॥ १ ॥
८१