SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ · योगशास्त्रे इत्युतामेव। अथ यदि न प्रसौदन्ति, तत्विं प्रसीदन्विति तथा प्रलापन ? । नैवम् । भक्त्यतिशयत एवमभिधानेऽपि न दोषः । यदाह-क्षीणक्लेशा एते नहि प्रसौदन्ति, न तत्स्तवोऽपि वृथा, तत्स्तवभावविशुद्धेः, प्रयोजनं कर्मविगम इति ॥ ५ ॥ तथाकित्तित्र वंदिअ महिमा जेए लोगस्म उत्तमा सिडा। . पारुग्गबोहिलाभं समाहिवरमुत्तमं दिंतु ॥ ६ ॥ कीर्तिताः स्वनामभिः प्रोक्ता:. वन्दितास्त्रिविधयोगेन सम्यक् स्तुताः, महिताः पुष्पादिभिः पूजिताः । ममा इति पाठान्तरम, तत्र मयका मया । के एते ?, इत्याह-ये एते लोकस्य प्राणिवर्गस्य कर्ममलकलङ्काभावनोत्तमाः प्रक्वष्टाः, सिद्धान्ति स्म सिद्धाः कतक्तत्या इत्यर्थः, अरोगस्य भाव आरोग्यं सिद्धत्वं तदर्थम्, बोधिलाभ: अर्हप्रणीतधर्मप्राप्तिरारोग्यबोधिलाभः, स ह्यनिदानो मोक्षायैव भवति तम्, तदर्थं च समाधिवरं वरसमाधि परमस्वास्थ्यरूपं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदादनेकधैव, अत पाहउत्तमं सर्वोत्कृष्टं ददतु प्रयच्छन्तु, एतच्च भत्त्याच्यते । यत उत्ताम् 'भासा असच्चमोसा नवरं भत्तीइ भासिया एसा । न हु खीण पिज्जदोसा दिति समाहिं च बोहिं च ॥१॥ इति (१) भाषा अमत्यमृषा नवरं भक्तरा भाषितेषा। न खलु क्षीणप्रेमदोषा ददति समाधि च बोधि च ॥ १ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy