________________
हतीयः प्रकाश: ।
'मप्पं मयणे जणणी जं पासइ तमसि तेण पासजिणो ।
वड्ढइ य नायकुलं ति अ तेण जिणो वडमाणु त्ति ॥ १२ ॥ पति कीर्तनं कृत्वा चेतःशुद्ध्यर्थं प्रणिधानमाह
एवं मए अभिथुआ विहअरयमला पहीणजरमरणा। ..
चउवौसं पि जिणवरा तिस्थयरा मे पसीअन्तु ॥ ५ ॥ एवमनन्तरोदितेन विधिना मयेत्यात्मनिर्देश:, अभिष्टुता भाभिमुख्येन स्तुता: स्वनामभिः कीर्तिता इत्यर्थः । किंविशिष्टास्ते, विधूतरजोमला:-रजच मलं च रजोमले, विधूते प्रकम्पिते अनेकार्थत्वादपनीते वा रजोमले यस्ते विधूतरजोमलाः, बध्यमानं च कर्म रजः. पूर्वबई तु मलम्, अथवा बद्धं रजो निकाचितं मलम्, अथवा ऐर्यापथं रज:, साम्परायिकं मलमिति । यतश्चैवंभूता अत एव प्रक्षीणजरामरणा: कारणाभावात् । चतुर्विंशतिरपि, अपिशब्दादन्येऽपि जिनवराः श्रुनादिजिनेभ्यः प्रकृष्टाः. ते च तीर्थकरा इति पूर्ववत्, मे मम, किं ? प्रसीदन्तु प्रसादपरा भवन्तु । ते च वीतरागत्वाद्यद्यपि स्तुता: तोषम्, निन्दिताश हेषं न यान्ति, तथाऽपि स्तोता स्तुतिफलम्. निन्दकश्च निन्दाफलमानोत्येव, यथा चिन्तामणिमन्त्राधाराधकः ; यदवोचाम वीतरागस्तवे
अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतना: ? ॥ १ ॥
(१) सर्प शयने जननी यत् पश्यति तमसि तेन पाश्वजिनः ।
वर्धते च जातकुन्नमिति च तेन जिनो वर्धसान इति ॥ १२ ॥