SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे सर्गाथं पठति पठन्ति वा। सुअस्म भगवो करेमि काउसग्गमित्यादि वोसिरामौति यावदर्थः पूर्ववत् । नवरम् –युतस्येति प्रवचनस्य सामायिकादेबिन्दसारपर्यन्तस्य भगवतो यशोमाहामाादियुक्त स्य, ततः कायोत्सर्गकरणं पूर्ववत्यारयित्वा श्रुतस्य स्तुतिं पठति। ततश्च अनुष्ठानपरम्पराफलभूतेभ्यः सिडेभ्यो नमस्कारकरणायेदं पठति पठन्ति वा -- सिद्धाणं बुद्धाणं पारगयाणं परम्परगयाणं । लोअग्गमुवगयाणं नमो सया सञ्चसिद्धाणं ॥ १ ॥ . सिद्धयन्ति स्म सिद्धाः ये येन गुणन नियन्त्राः परिनिष्ठिताः सिद्धोदनवद् न पुन: साधनौया इत्यर्थः, तेभ्यो नम इति योगः । ते च सामान्यतः कर्मादिमिद्धा अपि भवन्ति, यथोक्तम् 'कम्मे सिप्पे य विज्जा मंते जोगे य आगमे। .. अस्थ जत्ता अभिप्याए तवे कम्मक्खए इअ ॥ १ ॥ तत्र कर्म आचार्योपदेशरहितं भारवहनकृषिवाणिज्यादि, तत्र सिद्धः, परिनिष्ठितः, मह्यगिरिसिद्धवत्। शिल्पं त्वाचार्योपदेशजं तत्र मिडः, कोकासवधकिवत् । विद्या जपहोमादिना फ नदा, मन्त्री जपादिरहितः पाठमात्रसिद्धः ; स्त्रौदेवताऽधिष्ठाना विद्या, पुरुषदेवताधि (१) कर्मणि शिल्पे च विद्यायां मन्त्रे योगे चागमे।। अर्थ यालायामभिप्राये तपसि कर्मक्षय इति ॥१॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy