SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः । ठानस्तु मन्त्रः । तत्र विद्यासिद्ध आर्यखपुटवत्, मन्त्रसिद्धः स्तम्भाकर्षकवत्। योग औषधिसंयोगः, तत्र सिद्धो योगसिद्धः आर्यसमितवत्, आगमो द्वादशाङ्गं प्रवचनं तवाऽसाधारणार्थावगमामिडः आगमसिद्धो गौतमवत्, अर्थो धनम्, स इतरासाधारणो यस्य सोऽर्थसिद्धो मम्मणवणिग्वत् । जले स्थले वा यस्याऽविघ्ना यात्रास यात्रासिद्धस्तुण्डिकवत्। यमर्थमभिप्रेति तम) तथैव य: साधयति सोऽभिप्रायसिद्धोऽभयकुमारवत् । यस्य सर्वोत्कृष्टं तपः स तपःसिद्धो दृढ प्रहारिवत् । यः कर्मक्षयेण ज्ञानावरणीयाद्यष्टकर्म निर्मूलनेन सिद्धः स कर्मक्षयसिद्धो मरुदेवीवत् । अत: कर्मादिसिद्धव्यपोहेन कर्मक्षयसिद्धपरिग्रहार्थमाह-वुडेभ्य: अज्ञाननिद्राप्रसुप्ते जगति अरोपदेशेन जीवादिरूपं तत्त्वं बुद्धवन्तो बुद्धाः, बुद्धत्वानन्तरं कर्मक्षयं कृत्वा सिहा इत्यर्थः, तेभ्यः । एते च संसारनिर्वाणोभयपरित्यागस्थितिमन्तः कैथिदिष्यन्ते न संसार न निर्वाणे स्थितो भुवनभूतये । अचिन्त्यः सर्वलोकानां चिन्तारत्नाधिको महान् ॥ १ ॥ इति वचनात् । एतबिरासार्थमाह-पारगतेभ्यः पारं पर्यन्तं संसारस्य प्रयोजनवातस्य वा, गताः पारगताः तेभ्यः ; एते च यदृच्छावादिभिः कथिद्दरिद्रराज्याप्तिवदक्रमसिद्धत्वेनाऽभिधीयन्ते, तदुपदासाथैमाह-परम्परगयाणं--परम्परया चतुर्दशगुणस्थानक्रमारोहरूपया, अथवा कथञ्चित् कर्मक्षयोपशमादिसामग्रमा सम्यग्दर्शनं तस्मात् सम्यग्ज्ञानं तस्मात् सम्यक्चारित्रमित्येवम्भतया गता
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy