Book Title: Yogshastra Part 05
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 137
________________ तृतीयः प्रकाशः । उपेत्य पुरतस्तस्य तस्थुषोऽस्य महामुनेः । अवन्दत त्रिधानन्दश्चरणौ शिरसा स्पृशन् ॥ ५२ ॥ किं भवत्यवधिज्ञानं भगवन् ! गृहमेधिनः ? | इत्यानन्देन पृष्टः सन्नामेत्यूचे महामुनिः ॥ ५३ ॥ आनन्दोऽथावदत् स्वामिन् ! तर्हि मे गृहमेधिनः । अवधिज्ञानमुत्पेदे गुरुपादप्रसादतः ॥ ५४ ॥ आपं च योजनशत पूर्वाब्धौ दक्षिणोदधौ । पश्चिमाब्धौ च वीक्षेऽहमुदीच्यां त्वा हिमाचलात् ॥ ५५ ॥ ऊर्ध्वं सौधर्मकल्पादा पश्यामि भगवन्न्रहम् । ७६७ अधो रत्नप्रभायास्तु पृथ्वा श्रा लोलुपाद् वनात् ॥ ५६ ॥ मुनिरूचेऽवधिज्ञानं जायते गृहमेधिनः । न त्वियन्मात्रविषयं स्थानस्थालोचयास्य तत् ॥ ५७ ॥ आनन्दोऽप्यब्रवीदेतदस्ति मे तत्, मतामपि । भावानामभिधाने किं भवेदालोचना क्वचित् ? ॥ ५८ ॥ भवेदालोचना नो चेद् ननु तद् यूयमेव हि । आलोचनामाददीध्वं स्थानस्यामुष्य संप्रति ॥ ५८ ॥ आनन्देनेत्यभिहिते साशङ्को गौतमस्ततः । ययौ श्रौवीरपादान्ते भक्तपानाद्यदर्शयत् ॥ ६० ॥ आनन्दस्यावधिज्ञानमानविप्रतिपत्तिजम् । वादं चावेदयाञ्चक्रे गौतमस्तं जगद्गुरोः ॥ ६१ ॥ आलोचनीयं तदिह किमानन्देन किं मया ? | गौतमेनेति विज्ञप्ते भवतेत्यादिशत् प्रभुः ॥ ६२ ॥

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162