________________
तृतीयः प्रकाशः ।
उपेत्य पुरतस्तस्य तस्थुषोऽस्य महामुनेः । अवन्दत त्रिधानन्दश्चरणौ शिरसा स्पृशन् ॥ ५२ ॥ किं भवत्यवधिज्ञानं भगवन् ! गृहमेधिनः ? | इत्यानन्देन पृष्टः सन्नामेत्यूचे महामुनिः ॥ ५३ ॥ आनन्दोऽथावदत् स्वामिन् ! तर्हि मे गृहमेधिनः । अवधिज्ञानमुत्पेदे गुरुपादप्रसादतः ॥ ५४ ॥ आपं च योजनशत पूर्वाब्धौ दक्षिणोदधौ । पश्चिमाब्धौ च वीक्षेऽहमुदीच्यां त्वा हिमाचलात् ॥ ५५ ॥ ऊर्ध्वं सौधर्मकल्पादा पश्यामि भगवन्न्रहम् ।
७६७
अधो रत्नप्रभायास्तु पृथ्वा श्रा लोलुपाद् वनात् ॥ ५६ ॥ मुनिरूचेऽवधिज्ञानं जायते गृहमेधिनः ।
न त्वियन्मात्रविषयं स्थानस्थालोचयास्य तत् ॥ ५७ ॥ आनन्दोऽप्यब्रवीदेतदस्ति मे तत्, मतामपि । भावानामभिधाने किं भवेदालोचना क्वचित् ? ॥ ५८ ॥ भवेदालोचना नो चेद् ननु तद् यूयमेव हि । आलोचनामाददीध्वं स्थानस्यामुष्य संप्रति ॥ ५८ ॥ आनन्देनेत्यभिहिते साशङ्को गौतमस्ततः । ययौ श्रौवीरपादान्ते भक्तपानाद्यदर्शयत् ॥ ६० ॥ आनन्दस्यावधिज्ञानमानविप्रतिपत्तिजम् । वादं चावेदयाञ्चक्रे गौतमस्तं जगद्गुरोः ॥ ६१ ॥ आलोचनीयं तदिह किमानन्देन किं मया ? | गौतमेनेति विज्ञप्ते भवतेत्यादिशत् प्रभुः ॥ ६२ ॥