________________
योगशास्त्रे यावदुत्थातुमीशोऽस्मि शब्दायितुमपोखरः । धर्माचार्यश्च भगवान् यावद् विहरते मम ॥ ४१ ॥ संलेखनामुभयथापि कृत्वा मारणान्तिकीम् । तावच्चतुविधाहारप्रत्याख्यानं करोम्यहम् ॥ ४२ ॥ चिन्तयित्वैवमानन्दस्त थैव विदधेऽपि च । विसंवदति चिन्तायाश्चेष्टितं न महात्मनाम् ॥ ४३ ॥ निराकाङ्गस्य कालेऽपि समत्वाध्यवसायिनः । तस्य जज्ञेऽवधिज्ञानं तदावरणशुद्वित: ॥ ४४ ॥ तत्राजगाम भगवान् श्रीवीरो विहरंस्तदा । दूतिपलाशे समवामरचक्रे च देशनाम् ॥ ४५ ॥ गौतमश्च तदा भिक्षाचयया प्राविशत् पुरे । प्रात्तानपान: कोल्लाके ययावानन्दभूषिते । ४६ ॥ मिलितं तत्र भूयांसं लोकं संजातविस्मयम् । ईक्षाञ्चक्रे गणधरोऽन्योन्यमित्यभिभाषिणम् ॥ ४७ ॥ शिष्यो जगगुरोर्वीरस्थानन्दो नाम पुण्यधीः । प्रपत्रानशनोऽस्तीह निरीह सर्वथापि हि ॥ ४८ ॥ गौतमस्तु तदाकर्ण्य पश्याम्यममुपासकम् । इति बुया जगामाथ तत्योषधनिकेतनम् ॥ ४८ ॥ अकस्माद रत्नवृष्ट्याभं तमचिन्तितमागतम् । दृष्ट्वा सानन्दमानन्दोऽवन्दतैवमुवाच च ॥ ५० ॥ भगवन् ! तपसाऽनेन क्लिष्टमुस्थातुमक्षमः । इहानभियोगेन यथा पादौ स्मृशामि ते ॥ ५१ ॥