Book Title: Yogshastra Part 05
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
७६२
योगशास्त्रे
तथा च ;'निवाणमंतकिरिश्रा सा चोहसमेण पढमनाहस्म ।
सेसाण मासिएणं वीरजिणिंदस्म छटेण ॥ १ ॥ एवंभूतः सन् मरणं समाधिमरणं प्रतिपद्येत, आनन्दश्रावको यथेति संप्रदायगम्यम् । स चायम् ;
अस्त्यपास्तापरपुरं परमाभिविभूतिभिः । नाम्ना वाणिजकग्राम इति ख्यातं महापुरम् ॥ १ ॥ तत्र प्रजानां विधिवत् पितेव परिपालकः । जितशत्रुरिति ख्यातो बभूव पृथिवीपतिः ॥ २॥ आसौद् गृहपतिस्तस्मिन् नयनानन्दिदर्शनः । आनन्दो नाम मेदिन्यामायात इव चन्द्रमाः ॥ ३॥ सधर्मचारिणी तस्य रूपलावण्यहारिणी । बभूव शिवनन्देति शशाङ्कस्येव रोहिणी ॥ ४ ॥ निधौ वृद्धो व्यवहारे चतस्रोऽस्य पृथक् पृथक् । हिरण्यकोटयोऽभूवंश्चत्वारश्च वजा गवाम् ॥ ५ ॥ तत्पुरादुत्तरप्राच्यां कोलाकाख्योपपत्तने । प्रानन्दस्यातिबहवो बन्धुसंबन्धिनोऽभवन् ॥ ६ ॥ तदा च पृथिवीं विहरन् जिन: सिद्धार्थनन्दनः । तत्पुरोपवने दूतिपलाशे समवासरत् ॥ ७ ॥
(१) निर्वाणमन्त क्रिया सा चतुर्दशेन प्रथमनाथस्य ।
शेषाणां मासिकेन वीरजिनेन्द्रस्य षष्ठेन ॥ १ ॥

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162