Book Title: Yogshastra Part 05
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
तृतीयः प्रकाशः । जितशत्रुमहीनाथस्त्रिजगन्नाथमागतम् । श्रुत्वा ससंभ्रमोऽगच्छद् वन्दितुं सपरिच्छदः ॥ ८॥ अानन्दोऽपि ययौ पङ्गयां पादमूले जगत्पतेः । कर्णपीयूषगण्डूष कल्पां शुश्राव देशनाम् ॥ ८ ॥ अथानन्दः प्रणम्यांही त्रिजगत्स्वामिनः पुरः । जग्राह हादशविधं ग्रहिधर्म महामनाः ॥ १० ॥ शिवनन्दामन्तरेण स्त्री: स तत्याज हेम तु। चतस्रश्चतस्रः स्वर्णकोटीनिध्यादिगा विना ॥ ११ ॥ प्रत्याचख्यो व्रजानेष ऋते च चतुरो व्रजान् ।। क्षेचत्यागं च विदधे हलपञ्चशतों विना ॥ १२ ॥ शकटान् वजयामास पञ्च पञ्च शतान्यते । दिग्यानाव्यापूतानां च वहतां चानसाममौ ॥ १३ ॥ दिग्यात्रिकाणि चत्वारि स सांवनिकानि च । विहाय वहनान्यन्यवहमानि व्यवर्जयत् ॥ १४ ॥ अपरं गन्धकाषाय्या: स तत्याजागपुंसनम् । दन्तधावनमाज़्या मधुयष्टेरते जहौ ॥ १५ ॥ वर्जयामास च क्षौरामलकादपरं फलम् । अभ्यङ्गं च विना तैले सहस्रशतपाकिमे ॥ १६ ॥ अन्यत् सुरभिगन्धाढ्यादुइर्तनकमत्यजत् । अष्टभ्य भौष्ट्रिकपयस्कुम्भेभ्योऽन्यच्च मज्जनम् ॥ १७ ॥ अपरं क्षौमयुगलाद वासः सर्वमवर्जयत् । श्रीखण्डागुरुघुसणान्यपास्यान्यद् विलेपनम् ॥ १८ ॥

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162