SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः । जितशत्रुमहीनाथस्त्रिजगन्नाथमागतम् । श्रुत्वा ससंभ्रमोऽगच्छद् वन्दितुं सपरिच्छदः ॥ ८॥ अानन्दोऽपि ययौ पङ्गयां पादमूले जगत्पतेः । कर्णपीयूषगण्डूष कल्पां शुश्राव देशनाम् ॥ ८ ॥ अथानन्दः प्रणम्यांही त्रिजगत्स्वामिनः पुरः । जग्राह हादशविधं ग्रहिधर्म महामनाः ॥ १० ॥ शिवनन्दामन्तरेण स्त्री: स तत्याज हेम तु। चतस्रश्चतस्रः स्वर्णकोटीनिध्यादिगा विना ॥ ११ ॥ प्रत्याचख्यो व्रजानेष ऋते च चतुरो व्रजान् ।। क्षेचत्यागं च विदधे हलपञ्चशतों विना ॥ १२ ॥ शकटान् वजयामास पञ्च पञ्च शतान्यते । दिग्यानाव्यापूतानां च वहतां चानसाममौ ॥ १३ ॥ दिग्यात्रिकाणि चत्वारि स सांवनिकानि च । विहाय वहनान्यन्यवहमानि व्यवर्जयत् ॥ १४ ॥ अपरं गन्धकाषाय्या: स तत्याजागपुंसनम् । दन्तधावनमाज़्या मधुयष्टेरते जहौ ॥ १५ ॥ वर्जयामास च क्षौरामलकादपरं फलम् । अभ्यङ्गं च विना तैले सहस्रशतपाकिमे ॥ १६ ॥ अन्यत् सुरभिगन्धाढ्यादुइर्तनकमत्यजत् । अष्टभ्य भौष्ट्रिकपयस्कुम्भेभ्योऽन्यच्च मज्जनम् ॥ १७ ॥ अपरं क्षौमयुगलाद वासः सर्वमवर्जयत् । श्रीखण्डागुरुघुसणान्यपास्यान्यद् विलेपनम् ॥ १८ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy