SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ७६२ योगशास्त्रे तथा च ;'निवाणमंतकिरिश्रा सा चोहसमेण पढमनाहस्म । सेसाण मासिएणं वीरजिणिंदस्म छटेण ॥ १ ॥ एवंभूतः सन् मरणं समाधिमरणं प्रतिपद्येत, आनन्दश्रावको यथेति संप्रदायगम्यम् । स चायम् ; अस्त्यपास्तापरपुरं परमाभिविभूतिभिः । नाम्ना वाणिजकग्राम इति ख्यातं महापुरम् ॥ १ ॥ तत्र प्रजानां विधिवत् पितेव परिपालकः । जितशत्रुरिति ख्यातो बभूव पृथिवीपतिः ॥ २॥ आसौद् गृहपतिस्तस्मिन् नयनानन्दिदर्शनः । आनन्दो नाम मेदिन्यामायात इव चन्द्रमाः ॥ ३॥ सधर्मचारिणी तस्य रूपलावण्यहारिणी । बभूव शिवनन्देति शशाङ्कस्येव रोहिणी ॥ ४ ॥ निधौ वृद्धो व्यवहारे चतस्रोऽस्य पृथक् पृथक् । हिरण्यकोटयोऽभूवंश्चत्वारश्च वजा गवाम् ॥ ५ ॥ तत्पुरादुत्तरप्राच्यां कोलाकाख्योपपत्तने । प्रानन्दस्यातिबहवो बन्धुसंबन्धिनोऽभवन् ॥ ६ ॥ तदा च पृथिवीं विहरन् जिन: सिद्धार्थनन्दनः । तत्पुरोपवने दूतिपलाशे समवासरत् ॥ ७ ॥ (१) निर्वाणमन्त क्रिया सा चतुर्दशेन प्रथमनाथस्य । शेषाणां मासिकेन वीरजिनेन्द्रस्य षष्ठेन ॥ १ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy