________________
टतीय: प्रकाशः । शारीरमानसानेवं खपरप्रेरितान् मुनिः । परीषहान् सहेताभीर्वाक्कायमनसां वशी ॥ २३ ॥ ज्ञानावरणीये वेद्ये मोहनौयान्तराययोः । कर्मसूदयमाप्तेषु संभवन्ति परीषहाः ॥ २४ ॥ वेद्यात् स्यात् क्षुत् तृषा शीतमुष्णं दंशादयस्तथा । चर्या शय्या वधो रोगस्तृणस्पर्शमलावपि ॥ २५ ॥ प्रज्ञाज्ञाने तु विज्ञेयौ ज्ञानावरणसंभवौ।
अन्तरायादलाभोऽमी च्छद्मस्थस्य चतुर्दश ॥ २६ ॥ • क्षुत् पिपासा शौतमुष्णं दंशाश्वर्या वधो मलः ।
शय्या रोगस्तुणस्पर्शों जिने वेद्यस्य संभवात् ॥ २७ ॥ तथा, उपसर्गेभ्यो निर्भीकः, तत्रोप सामीप्येन उपसर्जनादुपसृज्यत एभिरिति वा, उपसृज्यन्त इति वोपसर्गाः, ते च ;
दिव्यमानुषतरश्चात्मसंवेदनभेदतः । चतुष्पकाराः प्रत्येकमपि ते स्युश्चतुर्विधाः ॥ १ ॥ हास्याद् द्वेषाद विमर्गाच्च तमित्रत्वाच्च देवताः । हास्याद् द्वेषाद् विमर्शाद् दुःशीलसङ्गाच मानुषाः ॥२॥ तैरश्चास्तु भयक्रोधाहारापत्यादिरक्षणात् । घट्टनस्तम्भनश्लेषप्रपातादात्मवेदनाः ॥ ३ ॥ यहा वात-पित्त-कफ-संनिपातोद्भवा अमी। परोषहोपसर्गाणामेषां सोढा भवेदभीः ॥ ४ ॥ जिनेष्वाराधनाकारिषु भक्तिभाक् बहुमानभाक्, 'जिनैरपि हि संसारपारावारपारीणे: पर्यन्ताराधनानुष्ठिता' इति बहुमानात् ।