SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ 948 योगशास्त्रे ऋते च मालतीमाल्यात् पद्माच कुसुमं जहौ । कर्णिकानाममुद्राभ्यामन्यच्चाशेषभूषणम् ॥ १८ ॥ तुरुष्कागुरुधूपेभ्य ऋते धूपविधिं जहौ । घृतपूरात् खण्डखाद्यादपरं भच्यमत्यजत् ॥ २० ॥ काष्ठपेयां विना पेयां कलमादन्यदोदनम् । मासमुहकलायेभ्य ऋते सूपमपाकरोत् ॥ २१ ॥ घृतं च वर्जयामास विना शारदगोष्टतात् । शाकं स्वस्तिकमण्डूकों पालक्यां च विना जहौ ॥ २२ ॥ ऋते स्नेहाम्लदाल्यम्नात् तीमनं चाम्बु खाम्बुनः । पञ्चसुगन्धिताम्बूलाद मुखवासं च सोऽमुचत् ॥ २३ ॥ आनन्दः शिवनन्दाया उपेत्याथ ससंमदः । अशेषं कथयामास गृहिधर्मं प्रतिश्रुतम् ॥ २४ ॥ शिवाय शिवनन्दापि यानमारुह्य तत्क्षणम् । भगवत्पादमूलेऽगादु गृहिधर्मार्थिनी ततः ॥ २५ ॥ तत्र प्रणम्य चरणौ जगत्त्रयगुरोः पुरः । प्रपेदे शिवनन्दापि गृहिधर्मं समाहिता ॥ २६ ॥ अभिरुह्य ततो यानं विमानमिव भासुरम् । भगवद्दाक्सुधापानमुदिता सा गृहं ययौ ॥ २७ ॥ अथ प्रणम्य सर्वज्ञमिति पप्रच्छ गौतमः । महात्मायं किमानन्दो यतिधर्मं ग्रहीष्यति ? ॥ २८ ॥ त्रिकालदर्शी भगवान् कथयामासिवानिति । श्रावकव्रतमानन्दः सुचिरं पालयिष्यति ॥ २८ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy