Book Title: Yogshastra Part 05
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
तृतीयः प्रकाशः |
तच्चातीतानागतवर्तमानकालत्रयविषयम् । नन्वतोतविषयमेव प्रतिक्रमणम्, यत उक्तम्, – “अइयं पडिक्कमामि, पडुप्पनं संवरेमि, अणागयं पच्च क्वामि” इति, तत् कथं त्रिकालविषयता ? | उच्यते - अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः,
`मिच्छत्त पडिक्कमणं तहेय अस्संजमे पडिकमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥१॥ ततश्च निन्दाद्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्र मणम्, प्रत्युत्पन्नविषयमपि संवरद्वारेण' अनागतमपि प्रत्याख्यानद्वारेणेति न कश्चिद् दोषः । तच्च दैवसिकादिभेदात् पञ्चधादिवसस्यान्ते दैवसिकम्, रात्रेरन्ते रात्रिकम्, पक्षस्यान्ते पाक्षिकम्, चतुणी मासानामन्ते चातुर्मासिकम्, संवत्सरस्यान्ते सांवत्सरि कम् । पुनर्देधा – ध्रुवम्, अध्रुवं च । ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेषु, अपराधो भवतु वा मा वा, उभयकालं प्रतिक्रमणम् । अध्रुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणजाते प्रतिक्रमणम् ; यदाह,
सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस् य जिणस्स | ममियाण जिलाणं कारणजाए पडिक्कमणं ॥ १ ॥
प्रतिक्रमणविधिश्चैताभ्यो गाथाभ्योऽवसेयः,
-
६८०
(१) अतीतं प्रतिक्रमामि प्रत्युत्पन्नं संदृणोमि, अनागतं प्रत्याख्यामि । (२) भिथ्यात्वप्रतिक्रमणं तथैवासंयमे प्रतिक्रमणम् ।
कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥ १ ॥ (३) सप्रतिक्रमणो धर्मः प्रथमस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां कारणे जाते प्रतिक्रमणम् ॥ १ ॥

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162