SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः | तच्चातीतानागतवर्तमानकालत्रयविषयम् । नन्वतोतविषयमेव प्रतिक्रमणम्, यत उक्तम्, – “अइयं पडिक्कमामि, पडुप्पनं संवरेमि, अणागयं पच्च क्वामि” इति, तत् कथं त्रिकालविषयता ? | उच्यते - अत्र प्रतिक्रमणशब्दोऽशुभयोगनिवृत्तिमात्रार्थः, `मिच्छत्त पडिक्कमणं तहेय अस्संजमे पडिकमणं । कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ॥१॥ ततश्च निन्दाद्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्र मणम्, प्रत्युत्पन्नविषयमपि संवरद्वारेण' अनागतमपि प्रत्याख्यानद्वारेणेति न कश्चिद् दोषः । तच्च दैवसिकादिभेदात् पञ्चधादिवसस्यान्ते दैवसिकम्, रात्रेरन्ते रात्रिकम्, पक्षस्यान्ते पाक्षिकम्, चतुणी मासानामन्ते चातुर्मासिकम्, संवत्सरस्यान्ते सांवत्सरि कम् । पुनर्देधा – ध्रुवम्, अध्रुवं च । ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेषु, अपराधो भवतु वा मा वा, उभयकालं प्रतिक्रमणम् । अध्रुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणजाते प्रतिक्रमणम् ; यदाह, सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस् य जिणस्स | ममियाण जिलाणं कारणजाए पडिक्कमणं ॥ १ ॥ प्रतिक्रमणविधिश्चैताभ्यो गाथाभ्योऽवसेयः, - ६८० (१) अतीतं प्रतिक्रमामि प्रत्युत्पन्नं संदृणोमि, अनागतं प्रत्याख्यामि । (२) भिथ्यात्वप्रतिक्रमणं तथैवासंयमे प्रतिक्रमणम् । कषायाणां प्रतिक्रमणं योगानां चाप्रशस्तानाम् ॥ १ ॥ (३) सप्रतिक्रमणो धर्मः प्रथमस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां कारणे जाते प्रतिक्रमणम् ॥ १ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy