Book Title: Yogshastra Part 05
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
टतीयः प्रकाशः ।
७५१ ___एते च मनोरथाः क्रमेणोत्तरोत्तरप्रकर्षवन्तः, तथाहि-प्रथमे श्लोके जिनधर्मानुरागमनोरथः, हितीये तु यतिधर्मपरिग्रहमनोरथः, तृतीये तु यतिचर्याकाष्ठाधिरोहणमनोरथः, चतुर्थे तु कायोत्सर्गादिमनोरथः, पञ्चमे तु गिरि-गुहाद्यवस्थितमुनिचर्यामनोरथः, षष्ठे तु परमसामायिकपरिपाकमनोरथः ॥१४६॥
इदानीमुपसंहरतिअधिरोढुं गुणश्रेणिं निःश्रेणी मुक्तिवश्मनः । परानन्दलताकन्दान् कुर्यादिति मनोरथान् ॥१४॥
अधिरोढुमारोढुं गुणश्रेणिमुत्तरोत्तरगुणस्था'नरूपाम्, किंविशिष्टाम् ? निःश्रेणीमिव निःश्रेणीम्, कस्य ? मुक्तिलक्षणस्य वेश्मनो मन्दिरस्य, कुर्याद् विदध्यात्, इति श्लोकषट्केनोक्तान मनोरथान्, किंविशिष्टान् ? परानन्दलताकन्दान् परश्वासावानन्दश्च स एव लता तस्याः कन्दान् कन्दभूतान् । यथा हि कन्दालता प्रभवति तथैतेभ्योऽपि मनोरथेभ्यः परो य आनन्दः परमसामायिकरूपः स प्रभवति । सप्तभिः कुलकम् ॥१४७॥
अथोपसंहरतिइत्याहोराविकों चर्यामप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति ॥१४८॥
इति पूर्वोक्तक्रमेण, अहोरात्रे भवामाहोरात्रिकी चयां समाचाररूपामप्रमत्तः प्रमादरहित: समाचरन् सम्यक् कुर्वन्, उक्त
(१)
ग थ -नक-।

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162