Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 8
________________ ३९८ योगशास्त्रे सदा गुरुकुलासौनो ध्यानमौनाश्रितः सदा । आनेतुमभिसर्तु वा स कथं नाम शक्यते ॥ १० ॥ वरं फणिफणारत्नग्रहणाय प्रतिश्रवः ।। कदापि न पुनस्तस्य शीलोल्लङ्घनकर्मणे ॥ १ ॥ अथाभयोचे कथमप्येकवारं तमानय । तत अर्द्धमहं सर्व करिष्यामि न ते च्छलम् ॥ २ ॥ विचिन्त्य चेतसा किञ्चिदित्यवोचत पण्डिता । यद्ययं निश्चयस्ते तदस्त्युपायोऽयमेककः ॥ ३ ॥ पर्वाहे शून्यगेहादौ कायोत्सर्ग करोति सः । तथास्थितो यदि परमानेतव्योऽन्यथा तु न ॥ ४ ॥ उपायः साधुरषोऽस्मिन् यतितव्यं त्वयाऽन्वहम् । इत्युक्तवत्यां तात्पर्याद्देव्यामोमित्युवाच सा ॥ ५ ॥ ततः परं व्यतीतेषु दिवमेषु कियत्स्वपि। विश्वानन्दकत्कौमुदीमहोत्सव उपाययौ ॥ ६ ॥ अथ राज्ञोत्सवोत्से कविधित्सोत्सुकचेतसा । आरक्षकाः समादिष्टाः पटहेनेत्यघोषयन् ॥ ७ ॥ सर्वर्या सर्वलोकेन कौमुद्युत्सवमीक्षितुम् । अद्योद्यानेऽभिगन्तव्यमिति वो राजशासनम् ॥ ८ ॥ प्रातरेष्थञ्चतुर्मासधर्मकर्मक्रियोन्मनाः । श्रुत्वा सुदर्शनस्तत्तु विषादादित्यचिन्तयत् ॥ ८ ॥ मनःप्रह्वमिदं प्रातश्चैत्यवन्दनकर्मणे । उद्यानगतये चैतत्प्रचण्डं राजशासनम् ॥ १० ॥

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 204