Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 12
________________ ४०२ योगशास्त्रे एवं कदर्थितो रात्रि तया ध्यानान सोऽचलत् । किं क्षुभ्यते महाम्भोधिः क्वापि नौदण्डताडनैः ॥ ४० ॥ ततः प्रेक्ष्य प्रभातं सा स्वं लिलेख नखैवपुः । कोऽप्यसौ मे बलात्कारकारीत्युच्चै ररास च ॥ ४१ ॥ तत: प्राहरिकास्तत्र संभ्रान्ता यावदागमन् । कायोत्सर्गस्थितं तावद्ददृशुस्ते सुदर्शनम् ॥ ४२ ॥ . अस्मिन्नसम्भवत्येतदिति द्रुतमुपेत्य तैः । विज्ञप्तो भूपतिस्तत्राययौ पप्रच्छ चाभयाम् ॥ ४३ ॥ सोचे संपृच्च्य देव ! त्वामहं यावदिह स्थिता। एषोऽकस्मादिहायातो दृष्टस्तावत्पिशाचवत् ॥ ४४ ॥ एष मेष इवोन्मत्तो मन्मथव्यसनी ततः । रिरंसुर्मामयाचिष्ट पापिष्ठश्चाटुकोटिभिः ॥ ४५ ॥ ऊचे मयैष रे मैषीरसतीवत्सतौरपि । शक्यन्ते हि चणकवन्मरिचानि न चर्वितम् ॥ ४६ ॥ ततः परं बलात्कारादेष एवं चकार मे। मया च पूरकतमन्यदबलानां बलं नहि ॥ ४७ ॥ अस्मिन्निदमसम्भाव्यमिति मत्वा महीपतिः । किमेतदिति पप्रच्छ बहुधैव सुदर्शनम् ॥ ४८ ॥ पृष्टोऽपि राज्ञा कृपया किञ्चिन्नीचे सुदर्शनः । परतापोपशान्त्यै हि निष्टमपि चन्दनम् ॥ ४८ ॥ ततः सम्भावयामास दोषं तस्यापि भूपतिः । पारदारिकदस्यूनां तूष्णीकत्वं हि लक्षणम् ॥ ५० ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 204