________________
४०२
योगशास्त्रे
एवं कदर्थितो रात्रि तया ध्यानान सोऽचलत् । किं क्षुभ्यते महाम्भोधिः क्वापि नौदण्डताडनैः ॥ ४० ॥ ततः प्रेक्ष्य प्रभातं सा स्वं लिलेख नखैवपुः । कोऽप्यसौ मे बलात्कारकारीत्युच्चै ररास च ॥ ४१ ॥ तत: प्राहरिकास्तत्र संभ्रान्ता यावदागमन् । कायोत्सर्गस्थितं तावद्ददृशुस्ते सुदर्शनम् ॥ ४२ ॥ . अस्मिन्नसम्भवत्येतदिति द्रुतमुपेत्य तैः । विज्ञप्तो भूपतिस्तत्राययौ पप्रच्छ चाभयाम् ॥ ४३ ॥ सोचे संपृच्च्य देव ! त्वामहं यावदिह स्थिता। एषोऽकस्मादिहायातो दृष्टस्तावत्पिशाचवत् ॥ ४४ ॥ एष मेष इवोन्मत्तो मन्मथव्यसनी ततः । रिरंसुर्मामयाचिष्ट पापिष्ठश्चाटुकोटिभिः ॥ ४५ ॥ ऊचे मयैष रे मैषीरसतीवत्सतौरपि । शक्यन्ते हि चणकवन्मरिचानि न चर्वितम् ॥ ४६ ॥ ततः परं बलात्कारादेष एवं चकार मे। मया च पूरकतमन्यदबलानां बलं नहि ॥ ४७ ॥ अस्मिन्निदमसम्भाव्यमिति मत्वा महीपतिः । किमेतदिति पप्रच्छ बहुधैव सुदर्शनम् ॥ ४८ ॥ पृष्टोऽपि राज्ञा कृपया किञ्चिन्नीचे सुदर्शनः । परतापोपशान्त्यै हि निष्टमपि चन्दनम् ॥ ४८ ॥ ततः सम्भावयामास दोषं तस्यापि भूपतिः । पारदारिकदस्यूनां तूष्णीकत्वं हि लक्षणम् ॥ ५० ॥