SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ हितीयः:प्रकाशः। ४०१ ताम्यन्तीं याचमानां मां नम्रा मानय मानद ! । दैवात्पतितमुत्सङ्गे रत्नं ग्रासि किं नहि ॥ ३१ ॥ 'कियदद्यापि सौभाग्यगर्वमुन्नाटयिष्यसि । इत्यालपन्त्या जगृहे तया पाणौ स पाणिना ॥ ३२ ॥ निबिडं मण्डलीभूतपीनोत्तुङ्गस्तनं तया । .. भुजाभ्यां पद्मिनीनालमृदुलाभ्यां स सखजेः ॥ ३३ ॥ एवं तदुपसर्गेषु निसर्गेण स धौरधीः । :: : धर्मध्याने निश्चलोऽभूत् किं चलत्यचलः क्वचित् ॥ ३४ ॥ स दध्यौ चेति चेन्मुच्थे कथञ्चिदहमेतया । पारयामि तदोत्सर्गमन्यथाऽनशनं मम ॥ ३५ ॥ . . पमानिताऽथ घटित कुटिः कुटिलाशया । अभया तं भापयितुमित्यभाषत निर्भया ॥ २६ ॥ मुमूर्षो ! मूर्ख ! माकार्षीर्मान्याया मेऽव माननाम् । न वेसि मानिनी नृणां निग्रहानुग्रहक्षमा ॥ ३७ ॥ मनोभववशाया मे वशमाविश रे जड !। :: नो चेद्यमवशं यास्यस्यत्र नास्त्येव संशयः ॥ ३८ ॥ इति संरम्भकाष्ठायां साऽऽरुरोह यथा यथा । धर्मध्याने महात्माऽसा वारुरोह तथा तथा ॥ ३८ ॥ (१) क किं यद्यद्यापि । (२) क -माननम् । ख ग च -मेव मान्यताम् । (३) च स चारोह। .. .
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy