Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal
View full book text
________________
४०४
योगशास्त्रे
कोऽपि नास्य प्रतीकारस्तथाप्येष भविष्यति । निश्चित्येति प्रविश्यान्तर्जिनाचः साऽर्चयत्ततः ॥ ६० ॥ कायोत्सर्गेण च स्थित्वा सोचे शासनदेवताः । भगवत्यो मम पत्युर्दोषसम्भावनाऽपि न ॥ ६१ ॥ परमश्रावकस्यास्य सान्निध्यं चेत्करिष्यथ । तदाऽहं पारयिष्यामि कायोत्सर्गमिमं खलु ॥ ६२ ॥ अन्यथैवंस्थिताया मे भवत्वनशनं ध्रुवम् । धर्मध्वंसे पतिध्वंसे॒ किं जीवन्ति कुलस्त्रियः १ ॥ ६३ ॥ इतश्च न्यधुरारक्षाः शूलिकायां सुदर्शनम् । अलङ्घनीया भृत्यानां राजाज्ञा हि भयङ्करा ॥ ६४ ॥ स्वर्णानासनतां भेजे शूलाऽप्यस्य महात्मनः । देवतानां प्रभावेन यमदंष्ट्राऽपि कुण्ठति ॥ ६५ ॥ वधाय तस्य चारचैर्दृढं व्यापारितः शितः । करवालोऽपतत्कण्ठे पुष्पमाला च सोऽभवत् ॥ ६६ ॥ तद्दृष्ट्वा चकितैरेत्य विज्ञप्तस्तैर्महीपतिः । आरुह्य हस्तिनौं वेगाद्ययावधिसुदर्शनम् ॥ ६७ ॥ तमालिङ्ग्य महोपालोऽनुतापादित्यवोचत । श्रेष्ठिनहि विनष्टोऽसि दियाऽऽत्मीयप्रभावतः ॥ ६८ ॥ मया हि तावत्पापेन किं राज्ञाऽसि विनाशितः । नाथः सतामनाथानां धर्मो जागर्त्ति सर्वथा ॥ ६८ ॥ स्त्रीणां मायाप्रधानानां प्रत्ययात्त्वां निहन्ति यः । अविमृश्यकरः पापो नापरो दधिवाहनात् ॥ ७० ॥
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 204