Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 6
________________ योगशास्त्रे तां दृष्ट्वा कपिलाऽपृच्छत्केयं स्वामिनि ! वर्णिनी। रूपलावण्यसर्वखभाण्डागार इवाग्रतः ॥ ८० ॥ ततस्तामभयाऽवादीन ज्ञातयमपि त्वया। सुदर्शनस्य ग्रहिणी गृहलक्ष्मीरिव स्वयम् ॥ ८१ ॥ तच्छ्रुत्वा विस्मिता स्माह कपिला देवि ! यद्यसौ । सुदर्शनस्य सहिणी तदस्याः कौशलं महत् ॥ ८२ ॥ किमस्याः कौशलमिति राजयोक्ता साऽब्रवीत्पुनः । इयन्ति पुनभाण्डानि यदसौ समजीजनत् ॥ ८३ ॥ खाधीनपतिका पुत्रानङ्गना जनयेद्यदि। तल्कि कौशलमित्युक्ताऽभयया कपिलाऽवदत् ॥ ८४ ॥ एवं देवि ! भवत्येव पतिर्य दि पुमान् भवेत् । सुदर्शन: पुनरयं 'पण्ड: पुरुषवेषभृत् ॥ ८५ ॥ कथमेतत्त्वया ज्ञातं राज्ञेप्रति गदिता ततः । सा सुदर्शनवृत्तान्तं स्वानुभूतमचीकथत् ॥ ८६ ॥ अभयाऽप्यब्रवीदेवं यद्येवं वञ्चिताऽसि तत् । मूढे ! पण्डः परस्त्रीषु न त्वयं निजयोषिति ॥ ८७ ॥ ततो विलक्षा कपिला प्रललापत्यमूयिता । वञ्चिता यद्यहं मूढा प्राज्ञायाः किं तवाधिकम् ॥ ८८ ॥ अनयोचे मया मुग्धे ! रागतः पाणिना धृतः । द्रवेवावाऽपि नि:संज्ञः ससंज्ञः किं पुनः पुमान् ॥ ८८ ॥ (१) क षण्डः । (२) क एगढ़ः। ख च षडः ।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 204