Book Title: Yogshastra Part 03
Author(s): Hemchandracharya, Vijaydharmsuri
Publisher: Asiatic Society of Bengal

View full book text
Previous | Next

Page 4
________________ ३८४ योगशास्त्रे किञ्चिच्च परिसृप्याग्रे पुन: प्रोचे सुदर्शनः । अत्रापि कपिलो नास्ति किमन्यत्र क्वचिद्ययौ ॥ ५८ ॥ सोचे स्थितो निवातेऽस्ति शरीरापाटवादसौ। मूलापवरकं गच्छ वयस्यं तत्र पश्य च ॥ ६ ॥ तत्रापि प्रविवेशायमपश्यन् सुहृदं ततः । कपिले ! कपिल: वास्तीत्युवाच सरलाशयः ॥ ६१ ॥ अवरुद्धा ततो हारं मदनोद्दीपनानि सा । किञ्चित्प्रकाश्य स्वाङ्गानि च्छादयन्त्यच्छवाससा॥६२॥(युग्मम्) दृढबन्धामपि नौवीं श्लथयित्वाऽभिबनती। . विलोललोचनाऽवोचद्रोमाञ्चोदञ्चिकञ्चुका ॥ ६३ ॥ नास्तीह कपिलस्तस्मात्कपिलां प्रतिजारहि। . विभेदो भवतः को वा हयोः कपिलयोननु ॥ ६४ ॥ प्रतिजागरितव्यं किं कपिलाया इति ब्रुवन् । सुदर्शनो निजगदे पुनः कपिलभार्यया ॥ ६५ ॥ त्वद्दयस्यः शशंस त्वां यदाऽद्भुतगुणं मम । तत: प्रभृति मामेष दुनोति मदनज्वरः ॥ ६६ ॥ दिध्या मे विरहा या छद्मनाऽपि त्वदागमः । भुवो ग्रीष्माभितप्ताया इव मेघसमागमः ॥ ६७ ॥ अद्य नाथामि तन्नाथ ! मन्मथोमाथविह्वलाम् । निजाश्लेषसुधावर्षेरावासय चिराय माम् ॥ ६८ ॥ प्रपञ्चः कोऽप्यसावस्या दुर्विचिन्त्यो विधेरपि । धिक् स्वीरिति विचिन्त्योचे स प्रत्युत्पन्नधौरिदम् ॥ ६८ ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 204