________________
३९८
योगशास्त्रे
सदा गुरुकुलासौनो ध्यानमौनाश्रितः सदा । आनेतुमभिसर्तु वा स कथं नाम शक्यते ॥ १० ॥ वरं फणिफणारत्नग्रहणाय प्रतिश्रवः ।। कदापि न पुनस्तस्य शीलोल्लङ्घनकर्मणे ॥ १ ॥ अथाभयोचे कथमप्येकवारं तमानय । तत अर्द्धमहं सर्व करिष्यामि न ते च्छलम् ॥ २ ॥ विचिन्त्य चेतसा किञ्चिदित्यवोचत पण्डिता । यद्ययं निश्चयस्ते तदस्त्युपायोऽयमेककः ॥ ३ ॥ पर्वाहे शून्यगेहादौ कायोत्सर्ग करोति सः । तथास्थितो यदि परमानेतव्योऽन्यथा तु न ॥ ४ ॥ उपायः साधुरषोऽस्मिन् यतितव्यं त्वयाऽन्वहम् । इत्युक्तवत्यां तात्पर्याद्देव्यामोमित्युवाच सा ॥ ५ ॥ ततः परं व्यतीतेषु दिवमेषु कियत्स्वपि। विश्वानन्दकत्कौमुदीमहोत्सव उपाययौ ॥ ६ ॥ अथ राज्ञोत्सवोत्से कविधित्सोत्सुकचेतसा । आरक्षकाः समादिष्टाः पटहेनेत्यघोषयन् ॥ ७ ॥ सर्वर्या सर्वलोकेन कौमुद्युत्सवमीक्षितुम् । अद्योद्यानेऽभिगन्तव्यमिति वो राजशासनम् ॥ ८ ॥ प्रातरेष्थञ्चतुर्मासधर्मकर्मक्रियोन्मनाः । श्रुत्वा सुदर्शनस्तत्तु विषादादित्यचिन्तयत् ॥ ८ ॥ मनःप्रह्वमिदं प्रातश्चैत्यवन्दनकर्मणे । उद्यानगतये चैतत्प्रचण्डं राजशासनम् ॥ १० ॥